संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय ७४

प्रभासक्षेत्र माहात्म्यम् - अध्याय ७४

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
ततो गच्छेन्महादेवि शाकल्येश्वरमुत्तमम् ॥
दैत्यसूदनवायव्ये धनुषां त्रिंशता स्थितम् ॥१॥
शाकल्येन महादेवि पूजितं सर्वकामदम्॥
शाकल्योनाम राजर्षिर्यत्र तप्त्वा महत्तपः ॥२॥
समाराध्य महादेवं प्रत्यक्षीकृतवान्भवम् ॥
लिंगेऽवतारयामास प्रसन्नं तं महेश्वरम् ॥३॥
तस्मिन्दृष्टे वरारोहे सप्तजन्मकृतं नृणाम् ॥
पापं प्रणश्यते शीघ्रं तमः सूर्योदये यथा ॥४॥
तत्राष्टम्यां चतुर्द्दश्यां स्नापयेत्पयसा शिवम् ॥
पूजयेच्च विधानेन गन्धपुष्पादिभिः क्रमात् ॥५॥
हिरण्यं तत्र दातव्यं सम्यग्यात्राफलेप्सुभिः ॥
चत्वारि तस्य नामानि कथ्यमानानि मे शृणु ॥६॥
आदौ कृतयुगे देवि कीर्तितो भैरवेश्वरः ॥
ततः सावर्णिमनुना सम्यगाराधितः प्रिये ॥७॥
सावर्णिकेश्वरं नाम त्रेतायां तस्य संज्ञितम् ॥
ततस्तु द्वापरे देवि गालवेन महात्मना ॥
सम्यगाराधितस्तत्र लिंगरूपीवृषध्वजः ॥८॥
तृतीयं तस्य देवस्य गालवेश्वरसंज्ञितम् ॥
कलौ युगे तु संप्राप्ते शाकल्योनाम वै मुनिः ॥९॥
यत्र सिद्धिमनुप्राप्त ऐश्वर्यं चाणिमादिकम्॥
शाकल्येश्वरनामेति ततः ख्यातं तुरीयकम् ॥१०॥
एवं चातुर्युगं नाम तस्य लिंगस्य कीर्तितम् ॥
पापघ्नं पुण्यदं नॄणां कीर्त्तितं सर्वकामदम् ॥११॥
तस्यैव देवदेवस्य क्षेत्रोत्पत्तिं शृणु प्रिये ॥१२॥
अष्टादशधनुर्देवि समंतात्परिमण्डलम् ॥
महापापहरं देवि तत्र क्षेत्रनिवासिनाम् ॥१३॥
कृमिकीटपतंगानां तिरश्चामपि मोक्षदम् ॥
यत्र कूपादितोयेषु जलं सारस्वतं स्मृतम् ॥१४॥
यत्र तत्र नरः स्नात्वा स्वर्गलोके महीयते ॥
अश्वमेधसहस्रस्य वाजपेयशतस्य च ॥१५॥
तत्फलं समवाप्नोति तस्य लिंगस्य दर्शनात् ॥
सोमपर्वणि संप्राप्ते यस्तत्र शुचिरात्मवान् ॥१६॥
अघोरं च जपेत्सम्यगाज्यहोमसमन्वितम् ॥
तल्लिंगस्य समीपस्थो यावन्मासावधिः प्रिये ॥१७॥
महापातकयुक्तोऽपि युक्तो वाऽप्युपपातकैः ॥
स सर्वां लभते सिद्धिमुत्तमां वरवर्णिनि ॥१८॥
कामिकं तत्स्मृतं लिंगं सर्वकामफलप्रदम् ॥
अघोर वक्त्रं देवस्य तत्रस्थं भैरवं महत् ॥१९॥
भैरवेश्वरनामेति पूर्वं ख्यातमभूद्भुवि ॥
अस्मिन्युगे तु संप्राप्ते शाकल्येश्वरनामकम् ॥२०॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये शाकल्येश्वरमाहात्म्यवर्णनंनाम चतुःसप्ततितमोऽध्यायः ॥७४॥ध ॥

N/A

References : N/A
Last Updated : January 08, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP