संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय १७३

प्रभासक्षेत्र माहात्म्यम् - अध्याय १७३

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
ततो गच्छेन्महादेवि लिंगानां च चतुष्टयम् ॥
एकस्थानस्थितानां तु सावित्र्यास्तत्र पश्चिमे ॥१॥
लिंगानां द्वितयं पूर्वे पश्चिमे सम्मुखद्वयम् ॥
कुशकेश्वरनामेति लिंगं वै प्रथमं स्मृतम् ॥२॥
गर्गेश्वरं द्वितीयं तु तृतीयं पुष्करेश्वरम् ॥
मैत्रेयेश्वरनामेति चतुर्थं समुदाहृतम् ॥३॥
एतानि यस्तु लिंगानि पश्येद्भक्त्या जितेन्द्रियः ॥
स मुक्तः पातकैः सर्वैर्गच्छेच्छिवपुरं महत् ॥४॥
शुक्लपक्षे चतुर्दश्यां वैशाखे तु विशेषतः ॥
स्नानं कृत्वा प्रयत्नेन ब्राह्मणांस्तत्र भोजयेत् ॥५॥
तेभ्यो दद्याद्यथाशक्त्या काञ्चनं वसनानि च ॥
एवं कृते भवेद्यात्रा परिपूर्णा सुरेश्वरि ॥६॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये कुशकादिलिंगचतुष्टयमाहात्म्यवर्णनंनाम त्रिसप्तत्युत्तरततमोऽध्यायः ॥१७३॥

N/A

References : N/A
Last Updated : January 12, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP