संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय १४६

प्रभासक्षेत्र माहात्म्यम् - अध्याय १४६

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ईश्वर उवाच॥
ततो गच्छेन्महादेवि धर्मराजप्रतिष्ठितम् ॥
यमेश्वरं महादेवं तस्यै वोत्तरतः स्थितम् ॥१॥
यदा शप्तो धर्मराजश्छायया वरवर्णिनि ॥
तदा तस्यापतत्पादः स च दुःखान्वितोऽभवत् ॥२॥
ततः प्राभासिके क्षेत्रे तपस्तेपे महातपाः ॥
स्थापयामास लिंगं तु तत्र देवस्य शूलिनः ॥३॥
तस्य तुष्टो महादेवस्ततः प्रत्यक्षतां गतः ॥
अब्रवीद्धर्म भद्रं ते वरं वरय चेप्सितम् ॥४॥
तदाऽब्रवीद्धर्मराजः पादः प्रपतितो मम ॥
प्रसादात्तव देवेश जायतां पुनरेव हि ॥५॥
एतल्लिंगं सुरश्रेष्ठ यन्मया निर्मितं तव ॥
एतद्ये भक्तिसंयुक्ताः पश्यंति प्राणिनो भुवि ॥६॥
तेषां तव प्रसादेन भूयात्पापविमोक्षणम् ॥७॥
एवं भविष्यतीत्युक्ता ह्यन्तर्धानं गतो हरः ॥
यमोऽपि लब्धपादस्तु पुनरेव दिवं ययौ ॥८॥
तस्मिन्दृष्टे सुरश्रेष्ठ यमलोकसमुद्भवम् ॥
न भयं विद्यते नृणामपि दुष्कृतकारिणाम् ॥९॥
भ्रातृद्वितीयासंयोगे स्नात्वा पुष्करिणीजले ॥
यमेश्वरसमीपस्थो यमेशमवलोकयेत् ॥१०॥
तिलपात्रं प्रदातव्यं दीपं गाः कांचना दिकम् ॥
यमदेवं समुद्दिश्य मुच्यते सर्वपातकैः ॥११॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये यमेश्वरमाहात्म्यवर्णनंनाम षट्चत्वारिंशदुत्तरशततमोऽध्यायः ॥१४६॥

N/A

References : N/A
Last Updated : January 10, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP