संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय २६०

प्रभासक्षेत्र माहात्म्यम् - अध्याय २६०

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
ततो गच्छेन्महादेवि देवं सिद्धेश्वरं परम् ॥
तस्यैव पश्चिमे भागे सिद्धैः संस्थापितं पुरा ॥१॥
सिद्धा नाम सुराः पूर्वं तत्रागत्य वरानने ॥
लिंगं संस्थापयामासुः सिद्ध्यर्थं सर्ववस्तुषु ॥२॥
ततस्तुष्टो महादेवि तेषां दृष्ट्वा तपो महत् ॥
अणिमादिकमैश्वर्यं तेषां सर्वं ददौ शिवः ॥३॥
अब्रवीदत्र मे नित्यं सानिध्यं च भविष्यति ॥४॥
चैत्रे शुक्लचतुर्द्दश्यां योऽत्र मां पूजयिष्यति ॥
स यास्यति परं स्थानं प्रसादान्मम पुण्यकृत् ॥५॥
एवमुक्त्वाऽथ भगवाञ्जगामादर्शनं ततः ॥
सिद्धाश्चैव तदाऽऽगत्य पूजयंति महेश्वरम् ॥६॥
यस्तमाराधयेद्भक्त्या संसिद्धिं लभतेऽद्भुताम्॥
ईप्सितां च सुरश्रेष्ठे तस्मात्तं पूजयेत्सदा ॥७॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये सिद्धेश्वरमाहात्म्यवर्णनंनाम षष्ट्युत्तरद्विशततमोऽध्यायः ॥२६०॥

N/A

References : N/A
Last Updated : January 13, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP