संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय १२

प्रभासक्षेत्र माहात्म्यम् - अध्याय १२

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
या संज्ञा सा स्मृता राज्ञी छाया या सा तु निक्षुभा ॥
राजृ दीप्तौ स्मृतो धातू राजा राजति यः सदा ॥१॥
अधिकं सर्वभूतेभ्यस्तस्माद्राजा स उच्यते ॥
राजपत्नी तु सा यस्मात्तस्माद्राज्ञी प्रकीर्तिता ॥२॥
क्षुभ संचलने धातुर्निश्चला तेन निक्षुभा ॥
भवंति ह्यथवा यस्मात्स्वांगीयाः क्षुद्विवर्जिताः ॥३॥
छाया तां विशते दिव्या स्मृता सा तेन निक्षुभा ॥
सांप्रतं वर्तते योऽयं मनुर्लोके महामते ॥४॥
तस्यान्ववाये जातस्तु शंखचकगदाधरः ॥
यमस्तु मात्रा संशप्तो हीनपादो धरातले ॥५॥
प्रभासक्षेत्रमासाद्य चचार विपुलं तपः ॥
वर्षाणामयुतं साग्रं लिंगं पूजितवान्प्रिये ॥६॥
तुष्टश्चाहं ततस्तस्य वराणां च शतं ददौ ॥
अद्यापि तत्र देवेशि यमेश्वरमिति श्रुतम् ॥
यमद्वितीयायां दृष्ट्वा यमलोकं न पश्यति ॥७॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये यमेश्वरोत्पत्तिवर्णनंनाम द्वादशोऽध्यायः ॥१२॥

N/A

References : N/A
Last Updated : January 07, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP