संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय ८८

प्रभासक्षेत्र माहात्म्यम् - अध्याय ८८

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
ततो गच्छेन्महादेवि नीलरुद्रं द्वितीयकम्॥
भूतेशादुत्तरे भागे धनुषां षोडशे स्थितम् ॥१॥
महालिंगं महादेवि गणगंधर्वपूजितम्॥
संस्नाप्य तं विधानेन ईशमंत्रेण पूजयेत् ॥२॥
कुमुदोत्पलसंभारैः सम्यक्संभावितात्मवान् ॥
कृत्वा प्रदक्षिणां तस्य नमस्कारेण पूजयेत् ॥३॥
एवं कृत्वा नरो देवि राजसूयफलं लभेत् ॥
वृषस्तत्रैव दातव्यः सम्यग्यात्राफलेप्सुभिः ॥४॥
नीलांजननिभो दैत्यो निहतश्चांतकः पुरा ॥
तस्य रोदयिता स्त्रीणां नीलरुद्रस्ततः स्मृतः॥५॥
तस्य संक्षेपतः प्रोक्तं माहात्म्यं पापनाशनम् ॥
सम्यक्छ्रद्धान्वितैः प्राप्यं श्राव्यं तद्दर्शनोत्सुकैः ॥६॥
इतिश्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य एकादशरुद्रमाहात्म्ये नील रुद्रमाहात्म्यवर्णनंनामाष्टाशीतितमोऽध्यायः ॥८८॥

N/A

References : N/A
Last Updated : January 08, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP