संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय २०७

प्रभासक्षेत्र माहात्म्यम् - अध्याय २०७

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
अतः परं प्रवक्ष्यामि श्राद्धदानान्यनुक्रमात् ॥
तारणाय च भूतानां सरस्वत्यब्धिसंगमे ॥१॥
लोके श्रेष्ठतमं सर्वं ह्यात्मनश्चापि यत्प्रियम् ॥
सर्वं पितॄणां दातव्यं तदेवाक्षय्यमिच्छताम् ॥२॥
जांबूनदमयं दिव्यं विमानं सूर्यसन्निभम् ॥
दिव्याप्सरोभिः संकीर्णमन्नदो लभतेऽक्षयम् ॥३॥
आच्छादनं तु यो दद्यादहतं श्राद्धकर्मणि ॥
आयुः प्रकाशमैश्वर्यं रूपं तु लभते च सः ॥४॥
कमण्डलुं च यो दद्याद्ब्राह्मणे वेदपारगे ॥
मधुक्षीरस्रवा धेनुर्दातारमनुगच्छति ॥५॥
यः श्राद्धे अभयं दद्यात्प्राणिनां जीवितैषिणाम् ॥
अश्वदानसहस्रेण रथदानशतेन च ॥
दन्तिनां च सहस्रेण अभयं च विशिष्यते ॥६॥
यानि रत्नानि मेदिन्यां वाहनानि स्त्रियस्तथा ॥
क्षिप्रं प्राप्नोति तत्सर्वं पितृभक्तस्तु मानवः ॥७॥
पितरः सर्वलोकेषु तिथिकालेषु देवताः ॥
सर्वे पुरुषमायांति निपानमिव धेनवः ॥८॥
मा स्म ते प्रतिगच्छेयुः पर्वकाले ह्यपूजिताः ॥
मोघास्तेषां भवन्त्वाशाः परत्रेह च मा क्वचित् ॥९॥
सरस्वत्यास्तु सान्निध्यं यस्त्वेकं भोजयेद्द्विजम् ॥
कोटिभोज्यफलं तस्य जायते नात्र संशयः ॥१०॥
अमावास्यां नरो यस्तु परान्नमुपभुञ्जते ॥
तस्य मासकृतं पुण्यमन्नदातुः प्रजायते ॥११॥
षण्मासमयने भुंक्ते त्रीन्मासान्विषुवे स्मृतम् ॥
वर्षैर्द्वादशभिश्चैव यत्पुण्यं समुपार्जितम् ॥
तत्सर्वं विलयं याति भुक्त्वा सूर्येन्दुसंप्लवे ॥१२॥
साग्रं मासं रवेः क्रान्तावाद्यश्राद्धे त्रिवत्सरम् ॥
मासिकेऽप्यथ वर्षस्य षण्मासे त्वर्धवत्सरम् ॥१३॥
तथा संचयनश्राद्धे जातिजन्मकृतं नृणाम् ॥
मृत शय्याप्रतिग्राही वेदस्यैव च विक्रयी ॥
ब्रह्मस्वहारी च नरस्तस्य शुद्धिर्न विद्यते। ॥१४॥
तडागानां सहस्रेण ह्यश्वमेधशतेन च ॥
गवां कोटि प्रदानेन भूमिहर्ता न शुद्ध्यति ॥१५॥
सुवर्णमाषं गामेकां भूमेरप्यर्धमंगुलम् ॥
हरन्नरकमाप्नोति यावदाभूतसंप्लवम् ॥१६॥
ब्रह्महत्या सुरापानं दरिद्रस्य तु यद्धनम् ॥
गुरोः पत्नी हिरण्यं च स्वर्गस्थमपि पातयेत्। ॥१७॥
सहस्रसंमिता धेनुरनड्वान्दश धेनवः ॥
दशानडुत्समं यानं दशयानसमो हयः ॥१८॥
दशहयसमा कन्या भूमिदानं ततोऽधिकम् ॥
तस्मात्सर्वप्रयत्नेन विक्रयं नैव कारयेत् ॥१९॥
विशेषतो महाक्षेत्रे सर्वपातकनाशने ॥
चितिकाष्ठं च वै स्पृष्ट्वा यज्ञयूपांस्तथैव च ॥
वेदविक्रयकर्तारं स्पृष्ट्वा स्नानं विधीयते ॥२०॥
आदेशं पठते यस्तु आदेशं च ददाति यः ॥
द्वावेतौ पापकर्माणौ पातालतलवासिनौ ॥२१॥
आदेशं पठते यस्तु राजद्वारे तु मानवः ॥
सोऽपि देवि भवेद्वृक्ष ऊषरे कंटकावृतः ॥
स्थितो वै नृपतिद्वारि यः कुर्याद्वेदविक्रयम् ॥२२॥
ब्रह्महत्यासमं पापं न भूतं न भविष्यति ॥
वरं कुर्वन्ध्रुवं देवि न कुर्याद्वेदविक्रयम् ॥२३॥
हत्वा गाश्च वरं मांसं भक्षयीत द्विजाधमः ॥
वरं जीवेत्समं म्लेच्छैर्न कुर्याद्वेदविक्रयम् ॥२४॥
प्रत्यक्षोक्तिः प्रत्ययश्च प्रश्नपूर्वः प्रतिग्रहः ॥
याजनाऽध्यापने वादः षड्विधो वेदविक्रयः ॥२५॥
वेदाक्षराणि यावन्ति नियुंक्ते स्वार्थकारणात् ॥
तावतीर्भ्रूणहत्या वै प्राप्नुयाद्वेदविक्रयी ॥२६॥
वेदानुयोगाद्यो दद्याद्ब्राह्मणाय प्रतिग्रहम् ॥
स पूर्वं नरकं याति ब्राह्मणस्तदनन्तरम् ॥२७॥
वैश्वदेवेन हीना ये हीनाश्चातिथ्यतोऽपि ये ॥
कर्मणा सर्ववृषला वेदयुक्ता ह्यपि द्विजाः ॥२८॥
येषामध्ययनं नास्ति ये च केचिदनग्नयः ॥
कुलं वाऽश्रोत्रियं येषां ते सर्वे शूद्रजातयः ॥२९॥
मृतेऽहनि पितुर्यस्तु न कुर्याच्छ्राद्धमादरात् ॥
मातुश्चैव वरारोहे स द्विजः शूद्रसंनिभः ॥३०॥
मृतके यस्तु भुञ्जीत गृहीतशशिभास्करे ॥
गजच्छायासु यः कश्चित्तं च शूद्रवदाचरेत् ॥३१॥
ब्रह्मचारिणि यज्ञे च यतौ शिल्पिनि दीक्षिते ॥
यज्ञे विवाहे सत्रे च सूतकं न कदाचन ॥३२॥
गोरक्षकान्वणिजकांस्तथा कारुकुशीलवान् ॥
स्पृश्यान्वार्धुषिकांश्चैव विप्रान्शूद्रवदाचरेत् ॥३३॥
ब्राह्मणः पतनीयेषु वर्तमानो विकर्मसु ॥
दाम्भिको दुष्कृतप्रायः स च शूद्रसमः स्मृतः ॥३४॥
अस्नाताशी मलं भुंक्ते अजापी पूयशोणितम् ॥
अहुत्वा तु कृमीन्भुंक्ते अदत्त्वा विषभोजनम् ॥३५॥
परान्नेन तु भुक्तेन मिथुनं योऽधिगच्छति ॥
यस्यान्नं तस्य ते पुत्रा अन्नाच्छुक्रं प्रवर्तते ॥३६॥
राजान्नं तेज आदत्ते शूद्रान्नं ब्रह्मवर्चसम् ॥
आयुः सुवर्णकारान्नं यशश्चर्मावकर्तिनः ॥३७॥
कारुकान्नं प्रजा हन्ति बलं निर्णेजकस्य च ॥
गणान्नं गणिकान्नं च लोकेभ्यः परिकृन्तति ॥३८॥
पूयं चिकित्सकस्यान्नं पुंश्चल्यास्त्वन्नमिन्द्रियम् ॥
विष्ठा वार्धुषिकस्यान्नं शस्त्रविक्रयिणो मलम् ॥३९॥
गायत्रीसारमात्रोऽपि वरं विप्रः सुयन्त्रितः ॥
नायंत्रितश्चतुर्वेदी सर्वाशी सर्वविक्रयी ॥४०॥
सद्यः पतति मांसेन लाक्षया लवणेन च ॥
त्र्यहेण शूद्रो भवति ब्राह्मणः क्षीरविक्रयात् ॥४१॥
रसा रसैर्नियंतव्या न त्वेव लवणं रसैः ॥
कृतान्नं च कृतान्नेन तिला धान्येन तत्समाः ॥४२॥
भोजनाभ्यञ्जनाद्दानाद्यदन्यत्कुरुते तिलैः ॥
कृमिभूतः स विष्ठायां पितृभिः सह मज्जति ॥४३॥
अपूपश्च हिरण्यं च गामश्वं पृथिवीं तिलान् ॥
अविद्वान्प्रतिगृह्णाति भस्मीभवति काष्ठवत् ॥४४॥
हिरण्यमायु रत्नं च भूर्गौश्चाकर्षतस्तनुम् ॥
अश्वश्चक्षुस्त्वचं वासो घृतं तेजस्तिलाः प्रजाः ॥४५॥तिल
अग्निहोत्री तपस्वी च क्षणवान्क्रियते यदि ॥
अग्निहोत्रं तपश्चैव सर्वं तद्धनिनो धनम् ॥४६॥
सोमविक्रयणे विष्ठा भेषजे पूयशोणितम् ॥
नष्टं देवलके दानं ह्यप्रतिष्ठं च वार्धुके ॥४७॥
देवार्चनपरो विप्रो वित्तार्थी भुवनत्रये ॥
असौ देवलकोनाम हव्यकव्येषु गर्हितः ॥४८॥
भ्रातुर्मृतस्यभायायां यो गच्छेत्कामपूर्वकम् ॥
धर्मेणापि नियुक्तायां स ज्ञेयो दिधिषूपतिः ॥४९॥
दाराग्निहोत्रसंयोगं कुरुते योऽग्रजे स्थिते ॥
परिवेत्ता स विज्ञेयः परिवित्तिस्तु पूर्वजः ॥५०॥
यो नरोऽन्यस्य वासांसि कूपोद्यानगृहाणि च ॥
अदत्तान्युपयुंजानः स तत्पापतुरीयभाक् ॥५१॥
आमन्त्रितस्तु यः श्राद्धे वृषल्या सह मोदते ॥
दातुर्यद्दुष्कृतं किञ्चित्तत्सर्वं प्रतिपद्यते ॥५२॥
ऋतामृताभ्यां जीवेत मृतेन प्रमृतेन वा ॥
सत्यानृताभ्यां जीवेत न श्ववृत्त्या कथंचन ॥५३॥
भक्ष्यं नित्यमृतं ज्ञेयममृतं स्यादयाचितम् ॥
मृतं तु वृद्ध्याजीवित्वं प्रमृतं कर्षणं स्मृतम् ॥५४॥
सत्यानृतं च वाणिज्यं तेन चैवोपजीव्यते ॥
सेवा श्ववृत्तिराख्याता तस्मात्तां परिवर्जयेत ॥५५॥
विप्रयोनिं समासाद्य संकरं परिवर्जयेत् ॥
मानुष्यं दुर्लभं लोके ब्राह्मण्यमधिकं ततः ॥५६॥
एकशय्यासनं पक्तिर्भाण्डपक्वान्नमिश्रणम् ॥
याजनाध्यापनं योनिस्तथा च सह भोजनम् ॥
नवधा संकरः प्रोक्तो न कर्तव्योऽधमैः सह ॥५७॥
अजीवन्कर्मणा स्वेन विप्रः क्षात्त्रं समाश्रयेत् ॥
वैश्यकर्माऽथवा कुर्याद्वार्षलं परिवर्जयेत् ॥५८॥
कुसीदं कृषिवाणिज्यं प्रकुर्वीत स्वयं कृतम् ॥
आपत्काले स्वयं कुर्वन्स्नानेन स्पृश्यते द्विजः॥५९॥
लब्धलाभः पितॄन्देवान्ब्रांह्मणांश्चैव तर्पयेत् ॥
ते तृप्तास्तस्य तत्पापं शमयंति न संशयः ॥६०॥
जलगोशकटारामयाञ्चावृद्धिवणिक्क्रियाः ॥
अनूपं पर्वतो राजा दुर्भिक्षे जीविका स्मृताः ॥६१॥
असतोऽपि समादाय साधुभ्यो यः प्रयच्छति ॥
धनं स्वामिनमात्मानं संतारयति दुस्तरात् ॥६२॥
शूद्रे समगुणं दानं वैश्ये तद्द्विगुणं स्मृतम् ॥
श्रोत्रिये तच्च साहस्रमनन्तं चाग्निहोत्रिके ॥६३॥
ब्राह्मणातिक्रमो नास्ति नाचरेद्यो व्यवस्थितिम् ॥
ज्वलंतमग्निमुत्सृज्य न हि भस्मनि हूयते ॥६४॥
विद्यातपोभ्यां हीनेन नैव ग्राह्यः प्रतिग्रहः ॥
गृह्णन्प्रदातारमधो नयत्यात्मानमेव च ॥६५॥
तस्माच्छ्रोत्रिय एवार्हो गुणवाञ्छीलवाञ्छुचिः ॥
अव्यंगस्तत्र निर्दोषः पात्राणां परमं स्मृतम् ॥६६॥
कपालस्थं यथा तोयं श्वदृतौ च यथा पयः ॥
दूषितं स्थानदोषेण वृत्तहीने तथा श्रुतम् ॥६७॥
दत्तं पात्रमतिक्रम्य यदपात्रे प्रतिग्रहः ॥
तद्दत्तं गामतिक्रम्य गर्दभस्य गवाह्निकम् ॥६८॥
वृत्तं तस्मात्तु संरक्षेद्वित्तमेति गतं पुनः ॥
अक्षीणो वित्ततः क्षीणो वृत्ततस्तु हतो हतः ॥६९॥
प्रथमं तु गुरौ दानं दत्त्वा श्रेष्ठमनुक्रमात् ॥
ततोऽन्येषां तु विप्राणां दद्यात्पात्रानुरूपतः ॥७०॥
गुरौ च दत्तं यद्दानं दत्तं पात्रेषु मानवैः ॥
निष्फलं तद्भवेत्प्रेत्य यात्युताधोगतिं प्रति ॥७१॥
अवमानं गुरोः कृत्वा कोपयित्वा तु दुर्मतिः ॥
गुर्वमानहतो मूढो न शांतिमधि गच्छति ॥७२॥
गुरोरभावे तत्पुत्रं तद्भार्यां तत्सुतं विना ॥
पुत्रं प्रपौत्रं दौहित्रं ह्यन्यं वा तत्कुलोद्भवम् ॥७३॥
पंचयोजनमध्ये तु श्रूयते स्वगुरुर्यदा ॥
तदा नातिक्रमेद्दानं दद्यात्पात्रेषु मानवः ॥७४॥
यतिश्चेत्प्रार्थयेल्लोभाद्दीयमानं प्रतिग्रहम् ॥
न तस्य देयं विद्वद्भिर्न लोभः शस्यते यतेः ॥७५॥
धनं प्राप्य यतिर्लोके मौनं ज्ञानं च नाभ्यसेत् ॥
उपभोगं तु दानेन जीवितं ब्रह्मचर्यया ॥७६॥
कुले जन्म च दीक्षाभिर्ये गतास्ते नरोत्तमाः॥
सौभाग्यमाप्नुयाल्लोके नूनं रसविवर्जनात्॥७७॥
आयुष्मत्यः प्रजाः सर्वा भवन्त्यामिषवर्जनात्॥७८॥
चीरवल्कलधृक्त्यक्त्वा वस्त्राण्याभरणानि च॥
नागाधिपत्यं प्राप्नोति उपवासेन मानवः॥७९॥
क्रीडते सत्यवाक्येन स्वर्गे वै देवतैः सह॥
अहिंसया तथाऽऽरोग्यं दानात्कीर्तिमनुक्रमात्॥८०॥
द्विजशुश्रूषया राज्यं द्विजत्वं चातिपुष्कलम्॥
दिव्यरूपमवाप्नोति देवशुश्रूषया नरः॥८१॥
अन्नदानाद्भवेत्तृप्तिः सर्वकामैरनुत्तमैः ॥
दीपस्य तु प्रदानेन चक्षुष्माञ्जायते नरः ॥८२॥
तुष्टिर्भवेत्सर्वकालं प्रदानाद्गन्धमाल्ययोः ॥
लवणस्य तु दातारस्तिलानां सर्पिषस्तथा ॥
तेजस्विनोऽपि जायन्ते भोगिनश्चिरजीविनः ॥८३॥
सुचित्रवस्त्राभरणोपधानं दद्यान्नरो यः शयनं द्विजाय ॥
रूपान्वितां पक्ष्मवतीं मनोज्ञां भार्यामरालोपचितां लभेत्सः ॥८४॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये श्राद्धकल्पे पात्रापात्रविचारवर्णनंनाम सप्तोत्तरद्विशततमोऽध्यायः ॥२०७॥

N/A

References : N/A
Last Updated : January 12, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP