संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय ५६

प्रभासक्षेत्र माहात्म्यम् - अध्याय ५६

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
अथ ते पंचमं वच्मि सिद्धलिगं महाप्रभम् ॥
ब्रह्मणो नैर्ऋते भागे धनुषां षोडशे स्थितम् ॥१॥
राहुलिंगस्य चाभ्याशे लिंगं धनदनिर्मितम् ॥
धनदत्वं च संप्राप्तो यत्र तप्त्वा महत्तपः ॥२॥
संस्थाप्य विधिवत्पूज्य लिंगं वर्षसहस्रकम् ॥
अलकाधिपतिर्जातस्तत्र शंभोः प्रसादतः ॥३॥
जातिं स्मृत्वा पूर्विकां तु ज्ञात्वा दीपदशाफलम् ॥
शिवरात्रे प्रभावं तु प्रभासं पुनरागतः ॥४॥
प्रभावातिशयं ज्ञात्वा स्थापयामास शंकरम् ॥
तत्र प्रत्यक्षतां नीतस्तपसा येन शंकरः ॥५॥
महाभक्त्या महादेवि तस्मिँल्लिंगेऽवतारितः ॥
तं दृष्ट्वा मानवो भक्त्या पूजयित्वा यथाविधि ॥६॥
पञ्चोपचारैः सद्भक्त्या गन्धधूपानुलेपनैः ॥
तस्यान्वये दरिद्रश्च कदापि न भविष्यति ॥७॥
ये चैतत्पूजयिष्यंति लिंगं भक्तियुता नराः ॥
अजेयास्ते भविष्यंति शत्रूणां दर्पनाशनाः ॥८॥
इति ते कथितं सर्वं धनदेशमहोदयम् ॥
श्रुत्वानुमोद्य यत्नेन दरिद्रो नैव जायते ॥९॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये धनदेश्वरमाहात्म्यवर्णनंनाम षट्पञ्चाशोऽध्यायः ॥५६॥

N/A

References : N/A
Last Updated : January 08, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP