संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय ११७

प्रभासक्षेत्र माहात्म्यम् - अध्याय ११७

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
ततो गच्छेन्महादेवि भूतनाथेश्वरं हरम्॥
कुण्डेश्वर्या ईशभागे धनुषां विंशकेऽन्तरे ॥१॥
कल्पलिंगं महादेवि ह्यनादिनिधनं स्थितम् ॥
पूर्वं त्रेतायुगे देवि वीरभद्रेश्वरीति च ॥२॥
प्रख्यातं भुवि देवेशि कलौ भूतेश्वरं स्मृतम् ॥
पुरा द्वापरसंधौ च तत्र भूतानि कोटिशः ॥३॥
संसिद्धिं परमां जग्मुस्तल्लिंगस्य प्रभावतः ॥
तेन भूतेश्वरं नाम प्रख्यातं धरणीतले॥४॥
तत्र कृष्णचतुर्द्दश्यां रात्रौ संपूज्य शंकरम् ॥
दक्षिणां दिशमाश्रित्य अघोरं पूजयेत्तु यः ॥५॥
दृढं जितेन्द्रियो भूत्वा निर्भयो ध्यानसंयु तः ॥
तस्यैव जायते सिद्धिर्या काचिद्भूतले स्थिता ॥६॥
तिलहेमप्रदानं च पिण्डदानं च तत्र वै ॥
पितॄनुद्दिश्य दद्याद्वै तेषां प्रेतत्वमुक्तये ॥७॥
इति निगदितमेतद्भूतनाथेश्वरस्य प्रचुरकलिमलानां नाशनं पुण्यहेतुः ॥
पठति च पुरुषो वा यः शृणोतीह भक्त्या सुरवरमहिमानं मुच्यते पातकौघैः ॥८॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये कुंडेश्वरी माहात्म्ये भूतनाथेश्वरमाहात्म्यवर्णनंनाम सप्तदशोत्तरशततमोऽध्यायः ॥११७॥

N/A

References : N/A
Last Updated : January 10, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP