संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय ३४

प्रभासक्षेत्र माहात्म्यम् - अध्याय ३४

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ ईश्वर उवाच ॥॥
सरस्वती वरं प्राप्य वरिष्ठं वडवानलात्॥
पुनस्तं सागरे क्षेप्तुमुद्यता सा मनस्विनी ॥१॥
देवादेशात्प्रभासस्य पुरतः संस्थिता तदा॥
समुद्रमाहूय तदा वाडवार्पणकांक्षिणी ॥२॥
त्वमादिः सर्वदेवानां त्वं प्राणः प्राणिनां सदा॥
देवादेशाद्गृहाण त्वमागत्यार्णव वाडवम् ॥३॥
एवं संचिंतितो देव्या यदासावंभसांपतिः॥
तथा जलात्समुत्तीर्य समायातो महाद्युतिः ॥४॥
तं दृष्ट्वा विस्मिता देवी दिव्यं विष्णुमिवापरम्॥
श्यामं कमलपत्राक्षं सागरं सुमनोरमम् ॥५॥
विचित्रमाल्याभरणं चित्रवस्त्रानुलेपनम्॥
आपगाभिः सरूपाभिः स्त्रीरूपाभिः समावृतम् ॥६॥
एवंविधं समालोक्य सा देवी ब्रह्मणः सुता॥
सरस्वती जलनिधिमुवाचेदं शुचिस्मिता ॥७॥
त्वमग्रजः सर्वभवोद्भवानां त्वं जीवितं जन्मवतां नराणाम्॥
तस्मात्सुराणां कुरु कार्यमिष्टं वह्निं गृहाण त्वमिहोपनीतम् ॥८॥
अत्रांतरे सोऽपि विमृश्य सर्वं कार्यं स्वबुद्ध्या किमिहोपपन्नम्॥
कृत्वाऽनलस्य ग्रहणं मयेदं कार्यं सुराणां विहितं भवेच्च ॥९॥
एवं चिंतयतस्तस्य ग्रहणं रुचितं ततः॥
वाडवाग्नेः समुद्रस्य सुरपीडाकृते यदा ॥१०॥
तदा तेन पुरःस्थेन देवी साभिहिता भृशम्॥
वाडवं संप्रयच्छैनं सुरशत्रुं सरस्वति ॥११॥
ततस्तया प्रणम्याशु पितामहपुरःसरान्॥
चारणांश्चारुचित्रांग्या सरस्वत्या दिवि स्थितान् ॥१२॥
पुनश्च करसंस्थोऽसौ वाडवोऽभिहितस्तया॥
त्वमपो भक्षयस्वेति सुरैरुक्त इमा इति ॥१३॥
एवमुक्त्वा समुद्रस्य तदा देव्या समर्प्पितः॥
वाडवोऽग्निः सरस्वत्या सुरादेशान्महाबलः ॥१४॥
तं समर्प्य ततस्तस्मि न्नदी भूत्वा सरस्वती॥
प्रविष्टा सागरं देवी नारदेश्वरमार्गतः ॥१५॥
दैत्यसूदनसांनिध्ये दत्त्वार्घ्यं लवणांभसि॥
अर्घ्येश्वरं प्रतिष्ठाप्य दैत्यसूदन पश्चिमे ॥१६॥
ततोऽब्धिं संप्रविष्टा सा पंचस्रोता महानदी॥
स्वरूपेणैव सा पुण्या पुनः पुण्यतमाऽभवत् ॥१७॥
प्रभासक्षेत्रसंपर्कात्समुद्रस्य च संगमात्॥
सागरोऽपि समासाद्य सरस्वत्यास्तु वाडवम्॥
निर्धनो वै धनं प्राप्याचिन्तयत्क्व क्षिपाम्यहम् ॥१८॥
स तेनैव करस्थेन दीप्य मानेन सागरः॥
वह्निना शिखरस्थेन भाति मेरुरिवापरः ॥१९॥
तं तथाविधमालोक्य तत्र ये जलचारिणः॥
यादोगणास्ते मुमुचुर्दाहभीता महास्वनम् ॥२०॥
तं श्रुत्वा भैरवं शब्दमायातो दैत्यसूदनः॥
आह यादोगणान्सर्वान्मा भैष्ट सुमहाबलाः ॥२१॥
यस्मादनेन प्रथमा आपो भक्ष्या न तत्रगाः॥
प्राणिनस्तन्न भेतव्यं भवद्भिस्तु ममाज्ञया ॥२२॥
एवमुक्तस्तु कृष्णेन तूष्णींभूता जलेचराः ॥२३॥
तूष्णींभूतेषु सर्वेषु जलजेषु जलेश्वरम्॥
प्राहाच्युतः प्रक्षिप त्वमपां मध्ये तु वाडवम् ॥२४॥
अगाधेम्भसि तेनासौ निक्षिप्तो वाडवोऽनलः॥
वरुणेन पिबन्नास्ते तज्जलं सुमहाबलः ॥२५॥
तस्योच्छ्वासानिलोद्धूतं तत्तोयं सागराद्बहिः॥
निर्मर्यादेव युवतिरितश्चेतश्चधावति ॥२६॥
अथ काले गते देवि शुष्यत्यंबु शनैःशनैः॥
विदित्वा क्षीयमाणास्ता अपो जलनिधिस्ततः ॥२७॥
आहैवं पुंडरीकाक्षमपः कुरु त्वमक्षयाः॥
अन्यथा सर्वनाशेन जलानां मामिहाग्रतः॥
भक्षयिष्यत्यसौ वह्निर्वाडवो हि जनार्द्दन ॥२८॥
एतच्छ्रुत्वा वचस्तस्य समुद्रस्य तु भीषणम्॥
कृतं तदक्षयं तोयमा त्मनो भयनाशनम् ॥२९॥
ज्ञात्वा सुराः सर्वमिदं विचेष्टितं कृत्यानलस्यास्य निबंधनं तथा॥
प्रलोभनं तोयपुरःसरा द्विषः पुपूजिरे केशवमत्र चारिणम्॥३०॥
एवं सरस्वती प्राप्ता प्रभासं क्षेत्रमुत्तमम्॥
ब्रह्मलोकान्महादेवि सर्वपापप्रणाशिनी ॥३१॥
सोमेशाद्दक्षिणाग्नेये सागरस्य समी पतः॥
संस्थिता तु महादेवी वडवानलधारिणी ॥३२॥
स्नात्वाऽग्नितीर्थे पूर्वं तां पूजयेद्विधिना नरः॥
दंपत्योर्भोजनं तत्र परिधानं सकञ्चु कम् ॥३३॥
दत्त्वा ततो महादेवं पूजयेच्च कपर्द्दिनम्॥
इति वृत्तं पुरा देवि चाक्षुषस्यांतरेऽभवत् ॥३४॥
दधीच्यन्वयजातस्य वाडवस्य महा त्मनः॥
अस्मिन्पुनर्महादेवि प्राप्ते वैवस्वतेंऽतरे॥
और्वस्तु भार्गवे वंशे समुत्पन्नो महाद्विजः ॥३५॥
संक्षिप्तोऽसौ सरस्वत्या देवमात्रा महाप्रभः॥
तावत्स्थास्यत्यपां गर्भे यावन्मन्वतरावधिः ॥३६॥
इति ते कथितं देवि सरस्वत्याः समुद्भवम्॥
श्रुतं पापहरं नृणां कीर्त्तिदं पुण्यवर्द्धनम् ॥३७॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये सरस्वत्यवतारमहिमवर्णनंनाम चतुस्त्रिंशोऽध्यायः ॥३४॥

N/A

References : N/A
Last Updated : January 07, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP