संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय १११

प्रभासक्षेत्र माहात्म्यम् - अध्याय १११

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
ततो गच्छेन्महादेवि पुष्करारण्यमुत्तमम् ॥
तस्मादीशानकोणस्थं धनुषां षष्टिभिः स्थितम् ॥१॥
तत्र कुण्डं महादेवि ह्यष्टपुष्करसंज्ञितम् ॥
सर्व पापहरं देवि दुष्प्राप्यमकृतात्मभिः ॥२॥
तत्र कुण्डसमीपे तु पुरा रामेशधीमता ॥
स्थापितं तन्महालिङ्गं रामेश्वर इति स्मृतम् ॥३॥
तस्य पूजनमात्रेण मुच्यते ब्रह्महत्यया ॥४॥
 ॥श्रीदेव्युवाच॥
भगवन्विस्तराद्ब्रूहि रामेश्वरसमुद्भवम् ॥
कथं तत्रागमद्रामः ससीतश्च सलक्ष्मणः ॥५॥
कथं प्रतिष्ठितं लिङ्गं पुष्करे पापतस्करे ॥
एतद्विस्तरतो ब्रूहि फलं माहात्म्यसंयुतम् ॥६॥
 ॥ईश्वर उवाच॥
चतुर्विंशयुगे रामो वसिष्ठेन पुरोधसा ॥
पुरा रावणनाशार्थं जज्ञे दशरथात्मजः ॥७॥
ततः कालान्तरे देवि ऋषिशापान्महातपाः ॥
ययौ दाशरथी रामः ससीतः सहलक्ष्मणः ॥८॥
वनवासाय निष्क्रांतो दिव्यैर्ब्रह्मर्षिभिर्वृतः ॥
ततो यात्राप्रसंगेन प्रभासं क्षेत्रमागतः ॥९॥
तं देशं तु समासाद्य सुश्रांतो निषसाद ह ॥
अस्तं गते ततः सूर्ये पर्णान्यास्तीर्य भूतले ॥१०॥
सुष्वापाथ निशाशेषे ददृशे पितरं स्वकम् ॥
स्वप्ने दशरथं देवि सौम्यरूपं महाप्रभम् ॥११॥
प्रातरुत्थाय तत्सर्वं ब्राह्मणेभ्यो न्यवेदयत् ॥
यथा दशरथः स्वप्ने दृष्टस्तेन महात्मना ॥१२॥
 ॥ब्राह्मणा ऊचुः॥
वृद्धिकामाश्च पितरो वरदास्तव राघव ॥
दर्शनं हि प्रयच्छंति स्वप्नान्ते हि स्ववंशजे ॥१३॥
एतत्तीर्थं महापुण्यं सुगुप्तं शार्ङ्गधन्वनः ॥
पुष्करेति समाख्यातं श्राद्धमत्र प्रदीयताम् ॥१४॥
नूनं दशरथो राजा तीर्थे चास्मिन्समीहते ॥
त्वया दत्तं शुभं पिण्डं ततः स दर्शनं गतः ॥१५॥
 ॥ईश्वर उवाच॥
तेषां तद्वचनं श्रुत्वा रामो राजीवलोचनः ॥
निमंत्रयामास तदा श्राद्धार्हान्ब्राह्मणाञ्छुभान् ॥१६॥
अब्रवील्लक्ष्मणं पार्श्वे स्थितं विनतकंधरम् ॥
फलार्थं व्रज सौमित्रे श्राद्धार्थं त्वरयाऽन्वितः ॥१७॥
स तथेति प्रतिज्ञाय जगाम रघुनंदनः ॥
आनयामास शीघ्रं स फलानि विविधानि च ॥१८॥
बिल्वानि च कपित्थानि तिन्दुकानि च भूरिशः ॥
बदराणि करीराणि करमर्दानि च प्रिये ॥१९॥
चिर्भटानि परूषाणि मातुलिंगानि वै तथा ॥
नालिकेराणि शुभ्राणि इंगुदीसंभवानि च ॥२०॥
अथैतानि पपाचाशु सीता जनकनंदिनी ॥
ततस्तु कुतपे काले स्नात्वा वल्कलभृच्छुचिः ॥२१॥
ब्राह्मणानानयामास श्राद्धार्हान्द्विजसत्तमान् ॥
गालवो देवलो रैभ्यो यवक्रीतोऽथ पर्वतः ॥२२॥
भरद्वाजो वसिष्ठश्च जावालिर्गौतमो भृगुः ॥
एते चान्ये च बहवो ब्राह्मणा वेदपारगाः ॥२३॥
श्राद्धार्थं तस्य संप्राप्ता रामस्याक्लिष्टकर्मणः ॥
एतस्मिन्नेव काले तु रामः सीतामभाषत ॥२४॥
एहि वैदेहि विप्राणां देहि पादावनेजनम् ॥
एतच्छ्रुत्वाऽथ सा सीता प्रविष्टा वृक्षमध्यतः ॥२५॥
गुल्मैराच्छाद्य चात्मानं रामस्यादर्शने स्थिता ॥
मुहुर्मुहुर्यदा रामः सीतासीतामभाषत ॥२६॥
ज्ञात्वा तां लक्ष्मणो नष्टां कोपाविष्टं च राघवम् ॥
स्वयमेव तदा चक्रे ब्राह्मणार्ह प्रतिक्रियाम् ॥ ॥२७॥
अथ भुक्तेषु विप्रेषु कृत पिंडप्रदानके ॥
आगता जानकी सीता यत्र रामो व्यवस्थितः ॥२८॥
तां दृष्ट्वा परुषैर्वाक्यैर्भर्त्सयामास राघवः ॥
धिग्धिक्पापे द्विजांस्त्यक्त्वा पितृकृत्यमहोदयम् ॥
क्व गताऽसि च मां हित्वा श्राद्धकाले ह्युपस्थिते ॥२९॥
 ॥ईश्वर उवाच॥
तस्य तद्वचनं श्रुत्वा भयभीता च जानकी ॥३०॥
कृताञ्जलिपुटा भूत्वा वेपमाना ह्यभाषत ॥
मा कोपं कुरु कल्याण मा मां निर्भर्त्सय प्रभो ॥३१॥
शृणु यस्माद्विभोऽन्यत्र गता त्यक्त्वा तवान्तिकम् ॥
दृष्टस्तत्र पिता मेऽद्य तथा चैव पितामहः ॥३२॥
तस्य पूर्वतरश्चापि तथा मातामहादयः ॥
अंगेषु ब्राह्मणेन्द्राणामाक्रान्तास्ते पृथक्पृथक् ॥३३॥
ततो लज्जा समभवत्तत्र मे रघुनन्दन ॥
पित्रा तत्र महाबाहो मनोज्ञानि शुभानि च ॥३४॥
भक्ष्याणि भक्षितान्येव यानि वै गुणवन्ति च ॥
स कथं सुकषायाणि क्षाराणि कटुकानि च ॥
भक्षयिष्यति राजेन्द्र ततो मे दुःखमाविशत् ॥३६॥
एतस्मात्कारणान्नष्टा लज्जयाऽहं रघूद्वह ॥
दृष्ट्वा श्वशुरवर्गं स्वं तस्मात्कोपं परित्यज ॥३६॥
तस्यास्तद्वचनं श्रुत्वा विस्मितो राघवोऽभवत् ॥
विशेषेण ददौ तस्मिञ्छ्राद्धं तीर्थे तु पुष्करे ॥३७॥
तत्र पुष्करसान्निध्ये दक्षिणे धनुषां त्रये ॥
लिंगं प्रतिष्ठयामास रामेश्वरमिति श्रुतम् ॥३५॥
यस्तं पूजयते भक्त्या गन्धपुष्पादिभिः क्रमात् ॥
स प्राप्नोति परं स्थानं य्रत्र देवो जनार्दनः ॥३९॥
किमत्र बहुनोक्तेन द्वादश्यां यत्प्रदापयेत् ॥
न तत्र परिसंख्यानं त्रिषु लोकेषु विद्यते ॥४०॥
शुक्रांगारकसंयुक्ता चतुर्थी या भवेत्क्वचित् ॥
षष्ठी वात्र वरारोहे तत्र श्राद्धे महत्फलम् ॥४१॥
यावद्द्वादशवर्षाणि पितरश्च पितामहाः ॥
तर्पिता नान्यमिच्छन्ति पुष्करे स्वकुलोद्भवे ॥४२॥
तत्र यो वाजिनं दद्यात्सम्यग्भक्तिसमन्वितः ॥
अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः ॥४३॥
इति ते कथितं सम्यङ्माहात्म्यं पापनाशनम् ॥
रामेश्वरस्य देवस्य पुष्करस्य च भामिनि ॥४४॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये पुष्करमाहात्म्ये रामेश्वरक्षेत्रमाहात्म्यवर्णनंनामैकादशोत्तरशततमोऽध्यायः ॥१११॥॥

N/A

References : N/A
Last Updated : January 10, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP