संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय ६०

प्रभासक्षेत्र माहात्म्यम् - अध्याय ६०

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
प्रभासक्षेत्रदूतीनां त्रितयं वरवर्णिनि ॥
अथ ते संप्रवक्ष्यामि शृणु ह्येकमनाः प्रिये ॥१॥
प्रथमा मंगला देवी विशालाक्षी द्वितीयिका ॥
तथा चत्वरदेवी तु तृतीया परिकीर्तिता ॥२॥
यथानुक्रमतः पूज्याः शक्तयस्ता वरानने ॥
प्रभासक्षेत्रयात्रायाः फलप्रेप्सुर्नरो यदि ॥३॥
 ॥देव्युवाच॥
कस्मिन्स्थाने स्थिता देव दूत्यस्ताः क्षेत्ररक्षिकाः ॥
कस्य ताः कथमाराध्याः कथं पूज्या जगत्पते ॥४॥
 ॥ईश्वर उवाच॥
ब्राह्मी तु मंगला प्रोक्ता विशालाक्षी तु वैष्णवी ॥
रौद्रीशक्तिः समाख्याता देवी सा चत्वरप्रिया ॥५॥
मंगला प्रथमं पूज्या अजादेव्युत्तरे स्थिता ॥
राह्वीशाद्दक्षिणेभागे नातिदूरे वरानने ॥६॥
सोमेश्वरप्रतिष्ठाप्य प्रारब्धे यज्ञकर्मणि ॥
सोमेन तत्र देवानामागता सा दिदृक्षया ॥७॥
ब्रह्मादीनां च सा यस्मान्मांगल्यं कृतवत्युमे ॥
तस्मात्सा मंगला प्रोक्ता सर्वमांगल्यदायिनी ॥८॥
तृतीयायां तु या नारी नरो वा पूजयिष्यति ॥
तस्याऽमंगल्यदुःखानि नाशं यास्यंति कृत्स्नशः ॥९॥
दम्पतीभोजनं तत्र फलदानं सकञ्चुकम् ॥
प्रशस्तं पृषदाज्यस्य प्राशनं पापनाशनम् ॥१०॥
इति संक्षेपतः प्रोक्तं महाभाग्यं महोदयम् ॥
मंगलायाश्च माहात्म्यं सर्वपातकनाशनम् ॥११॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये मङ्गलामाहात्म्यवर्णनंनाम षष्टितमोऽध्यायः ॥६०॥

N/A

References : N/A
Last Updated : January 08, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP