संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय २३५

प्रभासक्षेत्र माहात्म्यम् - अध्याय २३५

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
तत्रैव संस्थितं पश्येल्लिंगत्रयमनुत्तमम् ॥
शतमेधं सहस्रमेधं कोटिमेधमिति क्रमात् ॥१॥
दक्षिणे शतमेधं तु शतयज्ञफलप्रदम् ॥
कार्तवीर्य्येण तत्रैव कृतं यज्ञशतं पुरा ॥२॥
प्रतिष्ठाप्य महालिंगं सर्वपातकनाशनम् ॥
मध्यभागेऽत्र यल्लिंगं कोटिमेधेति विश्रुतम् ॥३॥
तत्रेष्टा ब्रह्मणा पूर्वं कोटि संख्या मखोत्तमाः ॥
संस्थाप्य तु महादेवं शंकरं लोकशंकरम ॥४॥
तस्य उत्तरभागस्थं सहस्रक्रतुसंज्ञकम् ॥
शक्रश्च देवराजोऽपि सहस्रं यष्टवान्क्रतून् ॥५॥
प्रतिष्ठाप्य महालिंगं देवानामादिदैवतम् ॥
गंधपुष्पादिविधिना पंचामृतरसोदकैः ॥६॥
स प्राप्नुयात्फलं देवि लिंगनामोद्भवं क्रमात् ॥
गोदानं तत्र देयं तु सम्यग्यात्राफलेप्सुभिः ॥७॥
दशलक्षाणि तीर्थानां तत्र तिष्ठंति भामिनि ॥
लिंगत्रयं तथा मध्ये सर्वपातकनाशनम् ॥८॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां सहितायां सप्तमे प्रभास खण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये दशाश्वमेधमाहात्म्ये शतमेधादि लिंगत्रयमाहात्म्यवर्णनंनाम पञ्चत्रिंशदुत्तरद्विशततमोऽध्यायः ॥२३५॥

N/A

References : N/A
Last Updated : January 12, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP