प्रभासक्षेत्र माहात्म्यम् - अध्याय १५७
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ईश्वर उवाच॥
ततो गच्छेन्महादेवि सत्यभामेश्वरं शुभम् ॥
रत्नेश्वराद्दक्षिणे तु धनुषांतरमास्थितम् ॥१॥
सर्वपापप्रशमनं स्थापितं सत्यभामया ॥
कृष्णस्य कान्तया देवि रूपौदार्यसमेतया ॥२॥
स्नात्वा तद्वैष्णवं स्थानं नृणां पातकनाशनम् ॥३॥
माघे मासि तृतीयायां नारी वा पुरुषोऽपि वा ॥
यस्तं पूजयते भक्त्या स मुक्तः पातकैर्भवेत् ॥४॥
दौर्भाग्यदुःखशोकेभ्यस्तथा विघ्नैश्च दुःखितः ॥
मुच्यते नात्र संदेहः सत्यभामान्वितो भवेत् ॥५॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये सत्यभामेश्वरमाहात्म्यवर्णनंनाम सप्तपञ्चाशदुत्तरशततमोऽध्यायः ॥१५७॥
N/A
References : N/A
Last Updated : January 11, 2025

TOP