संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय ११०

प्रभासक्षेत्र माहात्म्यम् - अध्याय ११०

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
ततो गच्छेद्वरारोहे प्रभासेश्वरमुत्तमम् ॥
गौरीतपोवनाद्देवि पश्चिमे समुदाहृतम् ॥१॥
धनुषां सप्तके देवि नातिदूरे व्यवस्थितम् ॥
स्थापितं तन्महालिंगं वसूनामष्टमेन हि ॥२॥
प्रभास इति नाम्ना हि शिवपूजारतेन वै ॥
स पुत्रकामो देवेशि प्रभासक्षेत्रमागतः ॥३॥
प्रतिष्ठाप्य महालिङ्गं चचार विपुलं तपः ॥
आग्नेयमिति विख्यातं दिव्याब्दानां शतं प्रिये ॥४॥
ततस्तस्य महादेवि सम्यक्छ्रद्धान्वि तस्य वै ॥
तुतोष भगवान्रुद्रो ददौ यन्मनसीप्सितम् ॥५॥
बृहस्पतेस्तु भगिनी भुवना ब्रह्मवादिनी ॥
प्रभासस्य तु सा भार्या वसूनामष्टमस्य च॥६॥
विश्वकर्मा सुतस्तस्याः सृष्टिकर्ता प्रजापतिः॥
देवानां तक्षको विद्वान्मनोर्मातामहः स्मृतः ॥७॥
तक्षकः सूर्यबिंबस्य तेजसः शातनो महान्॥
एवं तस्याऽभवत्पुत्रो वसूनामष्टमस्य वै ॥८॥
प्रभासनाम्नो देवेशि तल्लिंगाराधनोद्यतः ॥
इति ते कथितं देवि प्रभासेश्वरसूचकम् ॥९॥
माहात्म्यं सर्वपापघ्नं सर्वकामप्रदं शुभम् ॥
यस्तं पूजयते भक्त्या सम्यक्छ्रद्धासमन्वितः ॥१०॥
भूमिशायी निराहारो जपन्वै शतरुद्रियम् ॥
माघे मासि चतुर्दश्यां स्नात्वा सागरसंगमे ॥११॥
पंचामृतेन संस्नाप्य पूजयित्वा विधानतः ॥१२॥
य एवं कुरुते देवि सम्यग्यात्रामहोत्सवम् ॥
स मुक्तः पातकैः सर्वैः सर्वकामैः समृद्ध्यते ॥
वृषस्तत्रैव दातव्यः सम्यग्यात्राफलेप्सुभिः ॥१३॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये प्रभासेश्वरमाहात्म्यवर्णनंनाम दशोत्तरशततमोऽध्यायः ॥११०॥

N/A

References : N/A
Last Updated : January 10, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP