संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय २९५

प्रभासक्षेत्र माहात्म्यम् - अध्याय २९५

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
तस्मादीशान दिग्भागे इन्द्रस्थानमनुत्तमम् ॥
गव्यूतिपञ्चमात्रेण यत्र चन्द्रसरः प्रिये ॥१॥
तस्मादुत्तरदिग्भागे नातिदूरे व्यवस्थितम् ॥
यत्र चन्द्रोदकं देवि जरादारिद्र्यनाशनम् ॥२॥
चन्द्रानुवृद्ध्या तद्वृद्धिः क्षयस्तत्संक्षये भवेत्॥
तस्मिन्पापयुगेऽप्येवं कदाचित्संप्रदृश्यते॥३॥
तत्र स्नात्वा महादेवि यदि पापसहस्रकम्॥
कृतं सोऽत्र समायाति नात्र कार्या विचारणा॥४॥
तत्राहिल्याप्रसंगोत्थमहापातकभीरुणा॥
गौतमोद्भवशापेन विलक्ष्यीकृतचेतसा ॥५॥
इन्द्रेण च पुरा देवि इष्टं विपुलदक्षिणैः ॥
तत्र वर्षसहस्राणि संस्थाप्य शिवमीश्वरम् ॥
इन्द्रेश्वरेति नाम्ना वै सर्वपातक नाशनम् ॥६॥
चन्द्रतीर्थे नरः स्नात्वा संतर्प्य पितृदेवताः ॥
इन्द्रेश्वरं च संपूज्य मुच्यते नात्र संशयः ॥७॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये चन्द्रोदकतीर्थमाहात्म्य इन्द्रेश्वरमाहात्म्यवर्णनंनाम पञ्चनवत्युत्तर द्विशततमोऽध्यायः ॥२९५॥

N/A

References : N/A
Last Updated : January 13, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP