संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय १५५

प्रभासक्षेत्र माहात्म्यम् - अध्याय १५५

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
ततो गच्छेन्महादेवि रत्नेश्वरमनुत्तमम् ॥
तत्र तप्त्वा तपो देवि विष्णुना प्रभविष्णुना ॥
स्थापितं तत्र तल्लिंगं सर्वकामप्रदं प्रिये ॥१॥
रत्नकुंडे नरः स्नात्वा यस्तं पूजयते सदा ॥
सर्वोपचारैर्भक्त्या स प्राप्नुयादीप्सितं फलम् ॥२॥
अत्र कृत्वा तपो घोरं कृष्णेनामिततेजसा ॥
प्राप्तं सुदर्शनं चक्रं सर्वदैत्यान्तकारकम् ॥३॥
एतत्स्थानं महादेवि सदा प्रियतरं मम ॥
वसामि तत्र देवेशि प्रलयेऽपि न संत्यजे ॥४॥
स्मृतं तद्वैष्णवं क्षेत्रं नाम्ना देवि सुदर्शनम् ॥
धन्वंतराणि षट्त्रिंशत्समंतात्परिमण्डलम् ॥५॥
एतदन्तरमासाद्य ये केचित्प्राणिनोऽधमाः ॥
मृताः कालवशाद्देवि ते यास्यंति परं पदम् ॥६॥
कांचनं तत्र गरुडं पीतानि वसनानि च ॥
विष्णुमुद्दिश्य यो दद्यात्स तु यात्राफलं लभेत् ॥७॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये रत्नेश्वरमाहात्म्यवर्णनंनाम पंचपंचाशदु त्तरशततमोऽध्यायः ॥१५५॥

N/A

References : N/A
Last Updated : January 11, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP