संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय ४३

प्रभासक्षेत्र माहात्म्यम् - अध्याय ४३

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
ततो गच्छेद्वरारोहे लिंगं सूर्यप्रतिष्ठितम् ॥
सोमेशात्पश्चिमे भागे धनुषां सप्तके स्थितम्॥
आदित्येश्वरनामानं सर्वपातकनाशनम् ॥१॥
त्रेतायुगे महादेवि समुद्रेण महात्मना ॥
रत्नैः संपूजितं लिंगं वर्षाणामयुतं प्रिये ॥२॥
तेन रत्नेश्वरंनाम सांप्रतं प्रथितं क्षितौ ॥
पंचामृतेन संस्नाप्य पंचरत्नैः प्रपूजयेत् ॥३॥
ततो राजोपचारेण पूजयेद्विधिवन्नरः ॥
एवं कृते महादेवि मेरुदानफलं लभेत् ॥४॥
सर्वेषां चैव यज्ञानां दानानां नात्र संशयः ॥५॥
तीर्थानां चापि सर्वेषां यच्चान्यत्सुकृतं भुवि ॥
उद्धरेत्पितृवर्गं च मातृवर्गं च मानवः ॥६॥
बाल्ये वयसि यत्पापं वार्द्धके यौवनेऽपि वा ॥
क्षालयेच्चैव तत्सर्वं दृष्ट्वा रत्नेश्वरं नरः ॥७॥
धेनुदानं प्रशंसंति तस्मिन्स्थाने महर्षयः ॥
धेनुदस्तारयेन्नूनं दश पूर्वान्दशापरान् ॥८॥
देवस्य दक्षिणे भागे यो जपेच्छतरुद्रियम् ॥
संपूज्य विधिवल्लिंगं न स भूयः प्रजायते ॥९॥
एवं संक्षेपतः प्रोक्तमादित्येशमहोदयम् ॥
श्रुत्वाऽवधार्य यत्नेन मुच्यते कर्मबंधनैः ॥१०॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य आदित्येश्वरमाहात्म्यवर्णनंनाम त्रिचत्वारिंशोऽध्यायः ॥४३॥

N/A

References : N/A
Last Updated : January 07, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP