संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय ९७

प्रभासक्षेत्र माहात्म्यम् - अध्याय ९७

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
ततो गच्छेन्महादेवि योगेश्वरमिति श्रुतम् ॥
कामेशाद्वायवे भागे धनुषां सप्तके स्थितम् ॥१॥
लिंगं महाप्रभावं हि दर्शनात्पापनाशनम्॥
पूर्वे युगे तु संख्यातं गणेश्वरमिति श्रुतम् ॥२॥
पुरा मम गणा देवि असंख्याता महावलाः ॥
क्षेत्रं माहेश्वरं ज्ञात्वा प्रभासं समुपागमन् ॥३॥
तत्रस्थाश्च तपो घोरं तेपुस्ते योगमाश्रिताः ॥
दिव्याब्दानां सहस्रं तु ततस्तुष्टो महेश्वरः ॥४॥
सालोक्यां च ददौ मुक्तिं तेषां योगबलेन ३॥
यस्मा त्षडंगयोगेन तेषां तुष्टो वृषध्वजः ॥
तेन योगेश्वरं नाम लिंगं योगफलप्रदम् ॥५॥
यस्तमर्चयते भक्त्या सम्यक्पूजाविधानतः ॥
स योगसिद्धिमाप्नोति मोदते दिवि देववत् ॥६॥
यो दद्यात्कांचनं मेरुं कृत्स्नां चैव वसुन्धराम् ॥
योगेशं पूजयेद्यस्तु स तयोरधिकः स्मृतः ॥७॥
वृषभस्तत्र दातव्यः संपूर्णफलहेतवे ॥
एवमेकादश प्रोक्ता रुद्राः प्राभासमाश्रिताः ॥
नित्यं पूज्याश्च वंद्याश्च क्षेत्रस्य फलमीप्सुभिः ॥८॥
य एतां चैव शृणुयाद्रुद्रैकादशसंहिताम् ॥
तस्य क्षेत्रफलं सर्वं प्रभासांतरवासिनः ॥९॥
यश्चैतान्नैव जानाति रुद्रान्प्राभासमाश्रितान् ॥
स क्षेत्रमध्यसंस्थोऽपि नास्त्येव स पशुः स्मृतः ॥१०॥
एतेषां चैव रुद्राणां सर्वान्वाप्येकमेव वा ॥
सोमेश्वरं पूजयित्वा जपेद्वै शतरुद्रियम् ॥
सर्वेषां लभते पुण्यं रुद्राणां नात्र संशयः ॥११॥
इदं रहस्यं संख्यातं माहात्म्यं तव भामिनि ॥
रुद्राणां पापशमनं श्रुतं पुण्यविवर्द्धनम् ॥१२॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये योगेश्वरमाहात्म्यवर्णनंनाम सप्तनवतितमोऽध्यायः ॥९७॥

N/A

References : N/A
Last Updated : January 08, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP