संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय १३४

प्रभासक्षेत्र माहात्म्यम् - अध्याय १३४

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
ततो गच्छेन्महादेवि पुष्करावर्तकां नदीम् ॥
ब्रह्मकुंडादुत्तरतो नातिदूरे व्यवस्थिताम् ॥१॥
पुरा यज्ञे वर्तमाने सोमस्य तु महात्मनः ॥
ब्रह्मा सुरगणैः सार्धं प्रभासं क्षेत्रमागतः ॥२॥
सोमनाथप्रतिष्ठार्थमृक्षराजनिमंत्रितः ॥
प्रतिज्ञातं पुरा तेन ब्रह्मणा लोककारिणा ॥३॥
यावत्स्थास्याम्यहं मर्त्ये कस्मिंश्चित्कारणांतरे ॥
तावत्संध्यात्रयं वंद्यं नित्यमेव त्रिपुष्करे ॥४॥
एतस्मिन्नेव काले तु लग्नकाल उपस्थिते ॥
आदिष्टं शोभनं कालं ब्राह्मणैर्दैवचिन्तकैः ॥५॥
ततस्तं प्रस्थितं ज्ञात्वा पुष्करे तु पितामहम् ॥
संध्यार्थं रात्रिनाथो वै वाक्यमेतदुवाच ह ॥६॥।
दैवज्ञैः कलितः काल एष एव शुभोदयः ॥
यथा कालात्ययो न स्यात्तथा नीतिर्विधीयताम् ॥७॥
तं ज्ञात्वा सांप्रतं कालं ब्रह्मा लोकपितामहः ॥
मनसा चिन्तयामास पुष्कराणि समाहितः ॥८॥
तानि वै स्मृतमात्राणि ब्रह्मणा वरवर्णिनि ॥
प्रादुर्भूतानि तत्रैव नद्यास्तीरे सुशोभने ॥९॥
आवर्तास्तत्र सञ्जाता ज्येष्ठमध्यकनीयसः ॥
अथ नामाकरोत्तस्या ब्रह्मा लोकपितामहः ॥१०॥
पुष्करावर्तका नाम्ना अद्यप्रभृति शोभना ॥
नदी प्रयास्यते लोके ख्यातिं मम प्रसादतः ॥११॥
अत्र स्नात्वा नरो भक्त्या तर्पयिष्यति यः पितॄन् ॥
त्रिपुष्करसमं पुण्यं लप्स्यते स तथेप्सितम् ॥१२॥
श्रावणे शुक्लपक्षस्य तृतीयायां नरोत्तमः ॥
यः पितॄंस्तर्पयेत्तत्र तृप्तिः कल्पायुतं भवेत् ॥१३॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये पुष्करावर्तकानदीमाहात्म्यवर्णनंनाम चतुस्त्रिंशदुत्तरशततमोऽध्यायः ॥१३४॥

N/A

References : N/A
Last Updated : January 10, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP