संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय ३७

प्रभासक्षेत्र माहात्म्यम् - अध्याय ३७

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥देव्युवाच॥
किमर्थं कंकणं देव क्षिप्यते लवणांभसि ॥
तस्या पुण्यं न पूर्वोक्तं यथावद्वक्तुमर्हसि ॥१॥
के मंत्राः किं विधानं तत्कस्मिन्काले महत्फलम् ॥
किं पुराभूच्च तद्वृत्तं भगवन्कंकणाश्रितम् ॥२॥॥
 ॥ईश्वर उवाच॥
आसीत्पुरा महीपालो बृहद्रथ इति श्रुतः ॥
तस्य भार्याऽभवत्साध्वी नाम्ना चेंदुमती प्रिया ॥३॥
न देवी न च गन्धर्वी नासुरी न च किंनरी ॥
तादृग्रूपा महादेवि यादृशी सा सुमध्यमा ॥४॥
शीलरूपगुणोपेता नित्यं सा तु पतिवता ॥
सर्वयोषिद्गुणैर्युक्ता यथा साध्वी ह्यरुन्धती ॥५॥
प्रधान (?)हस्रस्य सौभाग्यमदगर्विता ॥
न विना स तया रेमे मुहूर्त्तमपि पार्थिवः ॥६॥
एकदा तस्यराजर्षेरर्द्धासनगता सती॥
यावत्तिष्ठति राजेंद्रमृषिस्तावदुपागतः॥
कण्वो नाम महातेजास्तपस्वी वेदपारगः॥७॥
तमागतमथो दृष्ट्वा सहसोत्थाय पार्थिवः॥
पूजां कृत्वा यथान्यायं दत्त्वा चार्घ्यमनुत्तमम्॥८॥
सुखासीनं ततो मत्वा विश्रांतं मुनिपुंगवम्॥
आपृच्छत्कुशलं राजा स सर्वं चान्वमोदयत् ॥९॥
ततो धर्मकथां चक्रे स ऋषिर्नृपसन्निधौ ॥१०॥
ततः कथावसाने सा भार्या तस्य महीपतेः ॥
अब्रवीदमृतं वाक्यं कृतांजलिपुटा सती ॥११॥
 ॥इन्दुमत्युवाच॥
त्वं वेत्सि भगवन्सर्वमतीतानागतं विभो ॥
पृच्छे त्वां कौतुकाविष्टा तस्मात्त्वं क्षंतुमर्हसि ॥ ॥१२॥
अन्यदेहोद्भवं कर्म मम सर्वं प्रकीर्त्तय ॥
ईदृशं मम सौभाग्यं पतिर्देवसुतोपमः ॥१३॥
सौभाग्यं पतिदेवत्वं शीलं त्रैलोक्यविश्रुतम्॥
किं प्रभावो व्रतस्यैष उताहोपोषितस्य वा ॥१४॥
दानस्य वा मुनिश्रेष्ठ यन्मे सौभाग्यमुत्तमम्॥
वशो राजा महाबाहुर्मम वाक्यानुगः सदा ॥ ॥१५॥
एतन्मे सर्वमाचक्ष्व परं कौतूहलं हि मे ॥१६॥
 ॥सूत उवाच॥
तस्यास्तद्वचनं श्रुत्वा ध्यात्वा च सुचिरं मुनिः ॥
अब्रवीत्प्रहसन्वाक्यं कण्वो वेदविदां वरः ॥१७॥
 ॥कण्व उवाच॥
शृणु राज्ञि प्रवक्ष्यामि अन्यदेहोद्भवं तव ॥
न रोषश्च त्वया कार्यो लज्जा वापि सुमध्यमे ॥१८॥
त्वमासीदन्यदेहे तु आभीरी पंचभर्तृका ॥
सौराष्ट्रविषये हीना देवं सोमेश्वरं गता ॥१९॥
ततः स्नातुं प्रविष्टा च सागरे लवणांभसि ॥
हता कल्लोलमालाभिर्विह्वलत्वमुपागता ॥२०॥
तव हस्ताच्च्युतं तत्र हैमं कंकणमेव च ॥
नष्टं समुद्रसलिले पश्चात्तापस्तु ते स्थितः ॥२१॥
अथ कालेन महता पंचत्वं त्वमुपागता ॥
दशार्णाधिपतेर्गेहे ततो जातासि सुन्दरि ॥२२॥
बृहद्रथेन चोढासि कंकणस्य प्रभा वतः॥
न व्रतं न तपो दानं त्वया चीर्णं पुरा शुभे ॥२३॥
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ॥
तच्छ्रुत्वा सा विशालाक्षी त्रपयाऽधो मुखी तथा ॥
आसीत्तूष्णीं तदा देवी श्रुत्वा वाक्यं च तादृशम् ॥२४॥
एवं निवेद्य स मुनी राजपत्नीं वरानने ॥
जगाम भवनं स्वं च आमंत्र्य वसुधाधिपम् ॥२५॥
ज्ञात्वा फलं कंकणस्य मुनेस्तस्य प्रभावतः ॥
गत्वा सोमेश्वरं देवं स्नात्वा च लवणांभसि ॥२६॥
प्राक्षिपत्कंकणं तत्र प्रतिवर्षं(?) महाप्रभे ॥
ततो देवत्वमापन्ना प्रभावात्तस्य भामिनि ॥२७॥
ईश्वर उवाच॥
एष प्रभावः सुमहान्कंकणस्य प्रकीर्तितः ॥
सर्वकामप्रदो देवि सर्वपापप्रणाशनः ॥२८॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये सोमेश्वरमाहात्म्ये कंकणमाहात्म्यवर्णनंनाम सप्तत्रिंशोऽध्यायः ॥३७॥॥

N/A

References : N/A
Last Updated : January 07, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP