संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय ३२१

प्रभासक्षेत्र माहात्म्यम् - अध्याय ३२१

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
अथ ते कीर्तयिष्यामि रहस्यं स्थानमुत्तमम् ॥
सर्वपापहरं नॄणामुन्नतस्थानवासिनाम् ॥१॥
श्रेष्ठदेवस्य माहात्म्यं ब्रह्मणोऽव्यक्तजन्मनः ॥
उन्नतस्थानसंस्थस्य देवस्य बालरूपिणः ॥
यस्य दर्शनमात्रेण सर्वपापैः प्रमुच्यते ॥२॥
 ॥देव्युवाच ॥
बालरूपीति यत्प्रोक्तमुन्नतं तत्कथं वद ॥
स्थानेष्वन्येषु सर्वत्र वृद्धरूपी पितामहः ॥३॥
कस्मिन्स्थाने स्थितस्तत्र किमर्थं तत्र वा गतः ॥
कथं स पूज्यो विप्रेन्द्रैस्तिथौ कस्यां क्रमाद्वद ॥४॥॥
 ॥ईश्वर उवाच॥
ऋषितोयापश्चिमे तु ऐशान्यां स्थलकेश्वरात् ॥
ब्रह्मणः परमं स्थानं ब्रह्मलोक इवापरः ॥५॥
ब्रह्मा विष्णुश्च रुद्रश्च पूज्याः प्राभासिके सदा ॥
ब्रह्मभागे स्थितो ब्रह्मा ऋषितोयातटे शुभे ॥६॥
रुद्रभागेऽग्नितीर्थे च पूज्यो रुद्रः सनातनः ॥
गिरौ रैवतके रम्ये पूज्यो दामोदरो हरिः ॥७॥
सोमेन प्रार्थितो देवो बालरूपी पितामहः ॥
आगतश्चाष्टवर्षस्तु ह्युन्नते स्थान उत्तमे ॥८॥
दृष्ट्वा ब्रह्मा द्विजाञ्छ्रेष्ठांस्तत्र स्थाने स्थितो विभुः ॥९॥
नास्ति ब्रह्मसमो देवो नास्ति ब्रह्मसमो गुरुः ॥
नास्ति ब्रह्मसमं ज्ञानं नास्ति ब्रह्मसमं तपः ॥१०॥
तावद्भ्रमंति संसारे दुःखशोकभयाप्लुताः ॥
न भवंति सुरज्येष्ठे यावद्भक्ताः पितामहे ॥११॥
समासक्तं यथा चित्तं जंतोर्विषयगोचरे ॥
यद्येवं ब्रह्मणि न्यस्तं को न मुच्येत बंधनात् ॥१२॥
परमायुः स्मृतो ब्रह्मा परार्धं तस्य वै गतम् ॥
उन्नतस्थानसंस्थस्य द्वितीयं भविताऽधुना ॥१३॥।
यदासावुन्नते स्थाने ब्रह्मलोकात्पितामहः ॥
आगतश्चाष्टवर्षस्तु बालरूपी तदोच्यते ॥१४॥
स्थानेष्वन्येषु विप्राणां वृद्धरूपी पितामहः ॥
युक्तं तदुन्नतस्थानं सदा च ब्रह्मणः प्रियम् ॥१५॥
स्नात्वा च विधिवत्पूर्वं ब्रह्मकुंडे नरोत्तम ॥
पूजयेत्पुष्पधूपाद्यैर्ब्रह्माणं बालरूपिणम् ॥१६॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य उन्नतस्थाने ब्रह्ममाहात्म्यवर्णनंनामैकविंशत्युत्तर त्रिशततमोध्यायः ॥३२१॥

N/A

References : N/A
Last Updated : January 13, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP