संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय ५७

प्रभासक्षेत्र माहात्म्यम् - अध्याय ५७

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
पंचैवं सिद्धलिंगानि कथितानि तव प्रिये ॥
यश्चैनं वेद संकेतं क्षेत्रवासी स उच्यते ॥१॥
अथ शक्तित्रयाणां ते रौद्रीणां वच्मि विस्तरम् ॥
इच्छा क्रियाज्ञानशक्त्यस्तिस्रस्ताः परिकीर्त्तिताः ॥२॥
पुनस्तासां पूजनायानुक्रमं क्रमतः शृणु ॥
चतुर्दश तथा पंच पूर्वमुक्तानि यानि तु ॥३॥॥
चत्वारि त्रीणि चैकं वा यथाशक्त्याभिपूज्य च ॥
लिंगानि तानि संपूज्य शक्तीस्तिस्रस्ततोऽर्चयेत् ॥४॥
सोमेशादीशदिग्भागे वरारोहेति या स्मृता ॥
अमा कला सा सोमस्य उमा पश्चात्प्रकीर्त्तिता ॥५॥
इच्छाशक्तिस्तु सा ज्ञेयाप्रभासक्षेत्रसंस्थिता ॥
तत्र देवि हितार्थाय सर्वेषां प्राणिनां भुवि ॥६॥
तस्या माहात्म्यमखिलं कथयामि तवाधुना ॥
पुरा सोमेन त्यक्ताभिर्भार्याभिस्तु वरानने ॥७॥
षड्विंशद्भिस्तपस्तप्तं क्षेत्रे प्राभासिके शुभे ॥
गौरी साऽऽराध्यमानाथ दिव्यवर्षगणान्बहून् ॥८॥
तासां प्रत्यक्षतां प्राप्ता पार्वती परमेश्वरी ॥
उवाच वरदा ब्रूत यद्वो मनसि संस्थितम् ॥९॥
अथ ताश्चाब्रुवन्देवि यदि तुष्टासि पार्वति ॥
सौभाग्यं देहि नो भूरि लावण्यं परमं तथा ॥१०॥
त्यक्ताः सर्वा वयं देवि निर्दोषाः स्वामिना शुभे ॥
दौर्भाग्यदोषसंदग्धा दौर्भाग्येण तु पीडिताः ॥११॥
 ॥गौर्युवाच॥
अद्यप्रभृति सर्वा वः समं द्रक्ष्यति रात्रिपः ॥
प्रसादान्मम चार्वंग्यो नैतन्मिथ्या भविष्यति ॥१२॥
वरदा चेति मन्नाम वरदानाद्भविष्यति ॥
इहागत्य तु या नारी पूजयिष्यति मां शुभाम् ॥१३॥
न दौर्भाग्यं कुले तस्याः क्वचित्प्राप्स्यंति योषितः ॥
माघमासे तृतीयायामुपवासपरायणा ॥१४॥
या मां द्रक्ष्यति सुश्रोणी मत्तुल्या सा भवि ष्यति ॥
दम्पती षोडशैवात्र परिधाप्य प्रयत्नतः ॥१५॥
फलानि भक्ष्यभोज्यं च पक्वान्नानि च षोडश ॥
या प्रदास्यति वै नारी सा तूमैव भविष्यति ॥१६॥
एतद्गौरीव्रतंनाम तृतीयायां तु कारयेत् ॥
अप्रसूता च या नारी या नारी दुर्भगा भवेत् ॥१७॥
पुमानसकृदप्यैवं कृत्वा प्राप्स्यत्यभीप्सितम् ॥
एवमुक्त्वा स्थिता तत्र सा देवी चारुलोचना ॥१८॥
पश्यते रात्रिनाथश्च सर्वास्ता रोहिणीं यथा ॥
अन्यापि दुःखसंदग्धा दौर्भाग्येण तु पीडिता ॥१९॥
अपूजयदुमां देवीं सुभगा साऽभवत्ततः ॥
इति संक्षेपतः प्रोक्तं माहात्म्यं शक्तिसंभवम् ॥२०॥
सोमेश्वरे वरारोहा नामेति कथितं तव ॥
सर्वपापक्षयकरं सर्वदारिद्र्यनाशनम् ॥२१॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये वरारोहामाहात्म्यवर्णनंनाम सप्तपंचाशोऽध्यायः ॥५७॥

N/A

References : N/A
Last Updated : January 08, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP