संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय ९८

प्रभासक्षेत्र माहात्म्यम् - अध्याय ९८

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
ततो गच्छेन्महादेवि चंडेश्वरमिति श्रुतम्॥
सोमेशाद्वायवे भागे धनुषां षष्टिभिः स्थितम् ॥१॥
दिव्यं लिंगं महादेवि सर्वपातकनाशनम् ॥
तत्पूर्वे तु युगे ख्यातं मनोः स्वायंभुवांतरे ॥२॥
त्रेतायुगमुखे देवि पृथिव्या संप्रतिष्ठितम्॥
पूर्वमन्वंतरे चास्मिँल्लिङ्गं पृथ्वीश्वरं प्रिये ॥३॥
पुनश्चंद्रेण तत्प्राप्तं लिंगं चंद्रेश्वरं प्रिये ॥
ब्रह्महत्यादिपापानां नाशनं पुण्यवर्द्धनम् ॥४॥
तं दृष्ट्वा मानवो देवि सप्तजन्मसमुद्भवैः ॥
मुच्यते कल्मषैः सर्वैः कृतकृत्यस्तु जायते ॥५॥
 ॥देव्युवाच॥
कथं पृथ्वीश्वरं ख्यातं तल्लिंगं पाप नाशनम् ॥
कथं पुनः समाख्यातं चन्द्रेश्वरमिति प्रभो ॥
एतद्विस्तरतो ब्रूहि श्रोतुकामाहमादरात् ॥६॥
 ॥ईश्वर उवाच॥
शृणु देवि प्रवक्ष्यामि कथा पापप्रणाशिनीम् ॥
यां श्रुत्वा मुच्यते जंतुस्त्रिविधैः कर्मबन्धनैः ॥७॥
आसीत्पूर्वं महादेवि दैत्यभारार्द्दिता मही ॥साऽधो व्रजंती सहसा गोरूपा संबभूव ह ॥८॥
इतस्ततो धावमाना न लेभे निर्वृतिं क्वचित् ॥
ततो वर्षशते पूर्णे भ्रममाणा क्वचित्क्वचित् ॥९॥
आससाद महाक्षेत्रं प्रभासमिति विश्रुतम् ॥
देवदानवगंधर्वैः सेवितं पापनाशनम् ॥१०॥
तत्र स्थित्वा महाक्षेत्रे कृत्वा मनसि निश्चयम् ॥
लिंगं प्रतिष्ठयामास भक्त्या परमया युता ॥११॥
वर्षाणां च शतं साग्रं कृते तपसि दुश्चरे ॥
तुतोष भगवान्रुद्रो धरित्रीं वाक्यमब्रवीत् ॥१२॥
देवि विश्वंभरे सर्वं तपः सुचरितं त्वया ॥
मा शोकं कुरु कल्याणि भविष्यति तवेप्सितम् ॥१३॥
दैत्या नाशं गमिष्यंति विष्णुना निहता भुवि ॥
भवित्री त्वं महादेवि दैत्यभारविवर्जिता ॥१४॥
इदं त्वया स्थापितं यल्लिंगं परमशोभनम् ॥
धरित्रीनाम्ना विख्यातं लोके ख्यातिं गमिष्यति ॥ ॥१५॥
अत्राहं संस्थितो नित्यं लिंगरूपी महाप्रभुः ॥
स्थास्यामि कल्पेकल्पे वै नृणां पापापहारकः ॥१६॥
मूर्त्यष्टकसमायुक्तो लिंगे ऽस्मिन्संस्थितः सदा ॥
नृणां नाशयिता पापं पूर्वजन्मशतार्जितम् ॥१७॥
 भाद्रे कृष्णतृतीयायां यश्चैतं पूजयिष्यति ॥
सोऽश्वमेधसहस्रस्य फलमाप्स्यत्यसंशयम् ॥१८॥
सर्वतीर्थाभिषेकस्य सर्वेषां दानकर्मणाम् ॥
भविष्यति फलं तस्य लिंगस्यैवास्य पूजनात् ॥१९॥
धनुषां षोडशं यावत्समंतात्परिमंडलम् ॥
क्षेत्रमस्य समाख्यातं प्राणिनां मुक्तिदायकम् ॥२०॥
तस्मिन्मृताः प्राणिनो ये कामतो वाप्यकामतः ॥
कृमि कीटसमा वापि ते यांति परमां गतिम् ॥२१॥
यो दद्यात्काञ्चनं मेरुं कृत्स्नां वाऽपि वसुन्धराम् ॥
यः पूजयति पृथ्वीशं स तयोरधिकः स्मृतः ॥२२॥
ईश्वर उवाच॥
इति दत्त्वा वरान्देवस्तत्रैवांतरधीयत ॥
पृथिवीश्वरनामाभूत्तत्प्रभृत्येव शंकरः ॥२३॥
पुनरस्मिन्महाकल्पे वाराह इति विश्रुते ॥
कदाचिद्दक्षशापेन क्षीणश्चन्द्रो बभूव ह ॥२४॥
पपात भूतले देवि यक्ष्मणा पीडितः शशी ॥
क्षेत्रं प्रभासमासाद्य तन्महोदधिसंनिधौ ॥२५॥
दृष्ट्वा पृथ्वीश्वरं लिंगं सप्रभावं महाप्रभम् ॥
तत्पूजानिरतो भूत्वा वर्षाणां तु सहस्रकम् ॥२६॥
अतपत्स तपो रौद्रं शीर्णपर्णांबुभक्षकः ॥
यतः समभवद्दीप्त्या सर्वाह्लादकरः शशी ॥२७॥
तल्लिंगस्यैव माहात्म्यात्ततश्चंद्रेश्वरोऽभवत् ॥
तस्य लिंगस्य माहात्म्याच्चंद्रमा गतकल्मषः ॥२८॥
अवाप सिद्धिमत्युग्रां स्पर्शलिंगप्रकाशिनीम् ॥
सोमनाथेति यां प्राहुः प्रसिद्धां लिंगरूपिणीम् ॥२९॥
इति संक्षेपतः प्रोक्तं माहात्म्यं चन्द्रदैवतम् ॥
श्रुतं हरति पापानि तथाऽऽरोग्यं प्रयच्छति ॥३०॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये मध्ययात्रायां पृथ्वीश्वर( चंद्रेश्वर)माहात्म्यवर्णनंनामाष्टनवतितमोध्यायः ॥९८॥

N/A

References : N/A
Last Updated : January 08, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP