प्रभासक्षेत्र माहात्म्यम् - अध्याय २८५
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ईश्वर उवाच॥
ततो गच्छेन्महादेवि पुनर्न्यंकुमतीं नदीम् ॥
तत्र कृत्वा गयाश्राद्धं गोष्पदे तीर्थ उत्तमे ॥१॥
ततः पश्येद्वराहं तु तस्माद्धरिगृहं व्रजेत् ॥
तत्र मातृस्तु संपूज्य स्नात्वा सागरसंगमे ॥२॥
न्यंकुमत्यर्णवोपेते ततः पूर्वमनु व्रजेत् ॥
अगस्तेराश्रमं दिव्यं क्षुधाहरमितिस्मृतम् ॥३॥
यत्रेल्वलं च वातापिं संहृत्य भगवान्मुनिः ॥
मुक्त्वाऽऽपद्भ्यो ब्राह्मणांश्च तेभ्यः स्थानं ततो ददौ ॥४॥
अगस्त्याश्रममेतद्धि अगस्तिप्रियमुत्तमम् ॥
न्यंकुमत्यास्तटे रम्ये सर्वपातकनाशने ॥५॥
॥देव्युवाच॥
अगस्तिनेह वातापिः किमर्थमुपशामितः ॥
अत्र वै किंप्रभावश्च स दैत्यो ब्राह्मणांतकः ॥
किमर्थं चोद्गतो मन्युरगस्तेस्तु महात्मनः ॥६॥
॥ईश्वर उवाच॥
इल्वलो नाम दैत्येन्द्र आसीद्वै वरवर्णिनि ॥
मणिमत्यां पुरा पुर्यां वातापिस्तस्य चानुजः ॥७॥
स ब्राह्मणं तपोयुक्तमुवाच दितिनंदनः ॥
पुत्र मे भगवन्नेकमिंद्रतुल्यं प्रयच्छतु ॥८॥
तस्मिन्स ब्राह्मणो नैच्छत्पुत्रं दातुं तथाविधम् ॥
चुक्रोध दितिजस्तस्य ब्राह्मणस्य ततो भृशम् ॥९॥
प्रभासक्षेत्रमासाद्य स दैत्यः पापबुद्धिमान् ॥
मेषरूपी च वातापिः कामरूपोऽभवत्क्षणात् ॥१०॥
संस्कृत्य भोजयेत्तत्र विप्रान्स च जिघांसति ॥
समा ह्वयति तं वाचा गतं चैव ततः क्षयम् ॥११॥
स पुनर्देहमास्थाय जीवन्स्म प्रत्यदृश्यत ॥
ततो वातापिरपि तं छागं कृत्वा सुसंस्कृतम् ॥
ब्राह्मणं भोजयित्वा तु पुनरेव समाह्वयत् ॥१२॥
स तस्य पार्श्वं निर्भिद्य ब्राह्मणस्य महात्मनः ॥
वातापिः प्रहसंस्तत्र निश्चक्राम द्विजोदरात् ॥१३॥
एवं स ब्राह्मणान्देवि भोजयित्वा पुनःपुनः ॥
विनिर्भिद्योदरं तेषामेवं हंति द्विजान्बहून् ॥१४॥
ततो वै ब्राह्मणाः सर्वे भयभीताः प्रदुद्रुवुः ॥
अगस्तेराश्रमं जग्मुः कथयामासुरग्रतः ॥१५॥
भगवञ्छृणु नो वाक्यमस्माकं तु भयावहम् ॥
निमंत्रिताः स्म सर्वे वा इल्वलेन वयं प्रभो ॥१६॥
अस्माकं मृत्युरूपं तद्भोजनं नास्ति संशयः ॥
तदस्मान्रक्ष भगवन्विषण्णागतचेतसः ॥१७॥
ततः प्रभासमासाद्य यत्र तौ दैत्यपुंगवौ ॥
ब्रह्मघ्रौ पापनिरतौ ददर्श स महामुनिः ॥१८॥
वातापिं संस्कृतं दृष्ट्वा मेषरूपं महासुरम् ॥
उवाच देहि मे भोज्यं बुभुक्षा मम वर्तते ॥१९॥
इत्युक्तौ स्वागतं तत्र चक्राते मुनये तदा ॥
भगवन्भोजनं तुभ्यं दास्येऽहं बहुविस्तरम् ॥
कियन्मानस्तवाहारस्तावन्मानं पचाम्यहम् ॥२०॥
॥अगस्त्य उवाच॥
अन्नं पचस्व दैत्येन्द्र किंचित्तृप्तिर्भविष्यति ॥
एवमस्त्विति दैत्येन्द्रः पक्वमाह महामुने ॥२१॥
आस्यतामासनमिदं भुज्यतां स्वेच्छया मुने ॥
इत्युक्तोऽघोरमंत्रं स जपन्कल्पांतकारकम् ॥
धुर्यासनमथासाद्य निषसाद महामुनिः ॥२२॥
तं पर्यवेषद्दैत्येंद्र इल्वलः प्रहसन्निव ॥
शतहस्तप्रमाणेन राशिमन्नस्य सोऽकरोत् ॥२३॥
ततो हष्टमनाऽगस्त्यः प्राग्रसत्कवलद्वयम् ॥
रूपं कृत्वा महत्तद्वद्यद्वत्सागरशोषणे ॥२४॥
समस्तमेव तद्भोज्यं वातापिं बुभुजे ततः ॥
भुक्तवत्यसुरो ह्वानमकरोत्तस्य इल्वलः ॥२५॥
ततोऽसौ दत्तवानन्नमगस्त्यस्य महात्मनः ॥
भस्मीचकार सर्वं स तदन्नं च सदानवम् ॥२६॥
इल्वलं क्रोधमुष्ट्या तु भस्मीचक्रे महामुनिः ॥
ततो हाहारवं कृत्वा सर्वे दैत्या ननंशिरे ॥२७॥
ततोऽगस्त्यो महातेजा आहूय द्विजपुंगवान् ॥
तत्स्थानं च ददौ तेभ्यो दैत्य्रानां द्रव्यपूरितम् ॥२८॥
क्षुधा हृता ततो देवि तत्रागस्त्यस्य दानवैः ॥
तेन क्षुधा हरंनाम स्थानमासीद्विजन्मनाम् ॥२९॥
तस्य पश्चिमभागे तु नातिदूरे व्यवस्थितम् ॥
गंगेश्वरमिति ख्यातं गंगया यत्प्रतिष्ठितम् ॥३०॥
वातापिभक्षणेपूर्वमगस्त्येन महात्मना ॥
दैत्यसंभक्षणोत्पन्नसर्वपातकशुद्धये ॥
समाहूता महादेवि गंगापातकनाशिनी ॥३१॥
ततो देवि समा याता गंगा पातकनाशिनी ॥
शुद्धिं चकार तस्यर्षेस्तत्र स्थाने स्थिताऽभवत् ॥३२॥
अगस्त्यस्याऽऽश्रमे रम्ये नृणां पापभयापहे ॥
तत्र गंगेश्वरं दृष्ट्वा अभक्ष्योद्भवपातकात्॥
मुच्यते नात्र संदेहः स्नानदानजपादिना ॥३३॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमेप्रभासक्षेत्रमाहात्म्ये न्यंकुमतीमाहात्म्येऽगस्त्याश्रमगंगेश्वरमाहात्म्यवर्णनंनाम पञ्चाशीत्युत्तरद्विशततमोऽध्यायः ॥२८५॥
N/A
References : N/A
Last Updated : January 13, 2025

TOP