संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय ४८

प्रभासक्षेत्र माहात्म्यम् - अध्याय ४८

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
ततो गच्छेन्महादेवि लिंगं शुक्रप्रतिष्ठितम्॥
सर्वपापहरं देवि विभूतीश्वरपश्चिमे ॥१॥
नातिदूरे स्थितं तत्र स्वयं शुक्रेण निर्मितम्॥
यत्र संजीवनीं प्राप्तो विद्यां रुद्रप्रभावतः ॥२॥
संतप्य तु महाघोरं तपोवर्षसहस्रकम् ॥
संप्रसाद्य विरूपाक्षं योऽवाप ग्रहतां सुधीः ॥३॥
ग्रस्तेन शंभुना येन देवकार्यार्थसिद्धये ॥
तत्रोदरगतेनैव तपस्तप्तं सुदुष्करम् ॥४॥
वर्षाणामयुतं साग्रं तुष्टिं नीतो महेश्वरः ॥
निष्कासितस्ततः शीघ्रं शुक्र मार्गेण शंभुना ॥५॥
ततः शुक्रेति नामाभूद्भार्गवस्य महात्मनः ॥
तदाराधयते लिंगं यः कृत्वा निश्चलं मनः ॥६॥
मृत्युंजयं जपेल्लक्षं स समीहितमाप्नुयात्॥७॥
तं दृष्ट्वा त्वथवा स्पृष्ट्वा जन्मादिमरणान्तकात्॥
मुच्यते पातकान्मृत्योः प्रसादात्तस्य भामिनि॥८॥
मृतसंजीवनार्थं यदैश्वर्यमणिमादिकम्॥
प्राप्नुयान्नात्र संदेहो यस्य भक्तिः सुनिश्चला ॥९॥
पंचामृतेन संस्नाप्य देवं शुकप्रतिष्ठितम्॥
सुगन्धपुष्पैः संपूज्य शौक्रीं पीडां स नाप्नुयात् ॥१०॥
इति सर्वं समासेन माहात्म्यं शुक्रदैवतम् ॥
कथितं तव सुश्रोणि श्रुतं पापभयापहम् ॥११॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये शुक्रेश्वरमाहात्म्यवर्णनंनामाष्टचत्वारिंशोध्यायः ॥४८॥

N/A

References : N/A
Last Updated : January 07, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP