संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय १७

प्रभासक्षेत्र माहात्म्यम् - अध्याय १७

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
अथ पूजाविधानं ते कथयामि यशस्विनि ॥
अर्कस्थलस्य देवस्य यथा पूज्यो नरोत्तमैः ॥१॥
सर्वेषामेव देवानामादिरादित्य उच्यते ॥
आदिकर्त्ता त्वसौ यस्मादादित्यस्तेन चोच्यते ॥२॥
नादित्येन विना रात्रिर्न दिवा न च तर्पणम्॥
न धर्मो वै न चाधर्मो न संतिष्ठेच्चराचरम् ॥३॥
आदित्यः पालयेत्सर्वमादित्यः सृजते सदा ॥
आदित्यः संहरेत्सर्वं तस्मादेष त्रयीमयः ॥४॥
आराधनविधिं तस्य भास्करस्य महात्मनः ॥
कथयामि महादेवि वेदोक्तैर्मंत्रविस्तरैः ॥
तं शृणुष्व वरारोहे सर्वपापप्रणाशनम् ॥५॥
मूर्त्तिस्थः पूज्यते येन विधानेन महेश्वरि ॥
द्वादशात्मा यथा सूर्यस्तत्ते वक्ष्याम्यशेषतः ॥६॥
मुखशुद्धिं च कृत्वाऽऽदौ स्नानं कृत्वा विशेषतः ॥
वस्त्रशुद्धिं देह शुद्धिं कृत्वा सूर्यं स्पृशेत्ततः ॥७॥
दन्तकाष्ठविधानं तु प्रथमं कथयामि ते ॥
मधूके पुत्रलाभः स्यादर्के नेत्रसुखं प्रिये ॥९॥
वक्तृत्वं वै बदर्या च बृहत्या द्रुर्ज्जनाञ्जयेत् ॥
ऐश्वर्यं च भवेद्बिल्वे खदिरे च न संशयः ॥९॥
रोगक्षयः कदम्बे तु अर्थलाभोऽतिमुक्तके ॥
मरुतां याति सर्वत्र आटरूषकसंभवैः ॥१०॥
जातिप्रधानतां जातावश्वत्थो यच्छते यशः ॥
श्रियं प्राप्नोति निखिलां शिरीषस्य निषेवणात् ॥११॥
प्रियंगुं सेवमानस्य सौभाग्यं परमं भवेत् ॥
अभीप्सितार्थसिद्धिः स्यान्नित्यं प्लक्षनिषेवणात् ॥१२॥
न पाटितं समश्नीयाद्दंतकाष्ठं न सव्रणम् ॥
न चोर्द्धशुष्कं वक्रं वा नैव च त्वग्विवर्ज्जितम् ॥१३॥।
वितस्तिमात्रमश्नीयाद्दीर्घं ह्रस्वं च वर्जयेत् ॥
उदङ्मुखो वा प्राङ्मुखः सुखासीनोऽथ वाग्यतः ॥ ॥१४॥
कामं यथेष्टं हृदये कृत्वा समभिमन्त्र्य च ॥
मंत्रेणानेन मतिमानश्नीयाद्दन्तधावनम् ॥१५॥
वरं दत्त्वाऽभिजानासि कामं चैव वनस्पते ॥
सिद्धिं प्रयच्छ मे नित्यं दन्तकाष्ठ नमोऽस्तु ते ॥१६॥
त्रीन्वारान्परिजप्यैवं भक्षयेद्दंतधावनम् ॥
पश्चात्प्रक्षाल्य तत्काष्ठं शुचौ देशे विनिक्षिपेत् ॥१७॥
दंतकाष्ठेन देवेशि न जिह्वां परिमार्जयेत् ॥
पृथक्पृथक्तदा कार्यं यदीच्छेद्विपुलं यशः ॥१८॥
अंगुल्या दंतकाष्ठं च प्रत्यक्षं लवणं च यत् ॥
मृत्तिकाभक्षणं चैव तुल्यं गोमांसभक्षणैः ॥१९॥
मुखे पर्युषिते नित्यं भवत्यप्रयतो द्विजः ॥
तस्माच्छुष्कमथार्द्रं वा भक्षयेद्दंतधावनम् ॥२०॥
वर्जिते दिवसे चैव गडूषांश्चैव षोडश ॥
तत्तत्पद्मसुगन्धैर्वा मुखशुद्धिं च कारयेत् ॥२१॥
मुखशुद्धिमकृत्वा यो भास्करं स्पृशति द्विजः ॥
त्रीणि वर्षसहस्राणि स कुष्ठी जायते नरः ॥२२॥
एवं वस्त्रादि संशोध्य ततः स्नानं समाचरेत् ॥
शुचौ मनोरमे स्थाने संगृह्यास्त्रेण मृत्तिकाम् ॥२३॥
सानुस्वारोकारयुतो हकारः फट्समन्वितः ॥
अनेनास्त्रेण संगृह्य स्नानं तत्र समाचरेत् ॥२४॥
भागत्रयं तु संशुद्धं तृणपाषाणवर्जितम् ॥
एकमस्त्रेण चालभ्य तथान्यं भास्करेण तु ॥२५॥
अंगैश्चैव तृतीयं तु अभिमंत्र्य सकृत्सकृत् ॥
जप्त्वास्त्रेण क्षिपेद्दिक्षु निर्विघ्नं तु जलं भवेत् ॥२६॥
सूर्यतीर्थ द्वितीयेन तृतीयेन सकृत्सकृत् ॥
गुंठयित्वा ततः स्नायाद्रवितीर्थेन मानवः ॥२७॥
तूर्यशंख निनादेन ध्यात्वा देवं दिवाकरम् ॥
स्नात्वा राजोपचारेण पुनराचम्य यत्नतः ॥२८॥
स्नानं कृत्वा ततो देवि मंत्रराजेन संयुतम् ॥
हरेफौ बिंदु लक्ष्मीश्च तथाऽन्यो दीर्घया सह ॥२९॥
मात्रया रेफसंयुक्तो हकारो बिंदुना सह ॥
सकारः सविसर्गस्तु मंत्रराजोऽयमुच्यते ॥३०॥
ततस्तु तर्प्पयेन्मंत्रान्सर्वांस्तांस्तु कराग्रजैः ॥
तुलनादूर्ध्वतो देवान्सव्येन च मुनींस्तथा ॥
पितॄंश्चैवापसव्येन हृद्बीजेन प्रतर्पयेत् ॥३१॥
यद्गीतं प्रवरं लोके अक्षराणां मनीषिभिः ॥
एकोनविंशं मात्राया अक्षरं तत्प्रकीर्त्तितम् ॥३२॥
एवं स्नात्वा विधानेन संध्यां वंदेद्विधानतः ॥
ततो विद्वान्क्षिपेत्पश्चाद्भास्करायोदकांजलिम् ॥३३॥
जपेच्च त्र्यक्षरं मंत्र षण्मुखं च यदृच्छया ॥
मंत्रराजेति यः पूर्वं तवाख्यातो मया प्रिये ॥३४॥
पश्चात्तीर्थेन मंत्रास्तु संहृत्य हृदये न्यसेत् ॥
मंत्रैरात्मानमेकत्र कृत्वा चार्घं प्रदापयेत् ॥३५॥
रक्तचंदनगंधैस्तु शुचिःस्नातो महीतले ॥
कृत्वा मंडलकं वृत्तमेकचित्तो व्यवस्थितः ॥३६॥
गृहीत्वा करवीराणि ताम्रे संस्थाप्य भाजने ॥
तिलतंदुलसंयुक्तं कुशगन्धोदकेन तु ॥३७॥
रक्तचंदन धूपेन युक्तम?र्घ्योपसाधितम् ॥
कृत्वा शिरसि तत्पात्रं जानुभ्यामवनिं गतः ॥३८॥
मूलमंत्रेण संयुक्तमर्घ्यं दद्याच्च भानवे ॥
मुच्यते सर्वपापैस्तु यो ह्येवं विनिवेदयेत् ॥३९॥
यद्युगादिसहस्रेण व्यतीपातशतेन च ॥
अयनानां सहस्रेण यत्फलं ज्येष्ठपुष्करे ॥
तत्फलं समवाप्नोति सूर्यायार्घ्य निवेदने ॥४०॥
दीक्षामंत्रविहीनोऽपि भक्त्या संवत्सरेण तु ॥
फलमर्घेण वै देवि लभते नात्र संशयः ॥४१॥
यः पुनर्दीक्षितो विद्वान्विधिनार्घ्यं निवेदयेत् ॥
नासौ संभवते भूमौ प्रलयं याति भास्करे ॥४२॥
इह जन्मनि सौभाग्यमायुरारोग्यसंपदम् ॥
अचिराल्लभते देवि सभार्यः सुखभाजनम् ॥४३॥
एवं स्नानविधिः प्रोक्तः सौरः संक्षेपतस्तव ॥
हिताय मानवेन्द्राणां सर्वपापप्रणाशनः ॥४४॥
अथवा वेदमार्गेण कुर्यात्स्नानं द्विजोत्तमः ॥
यद्येवं मन्त्रविस्तारे ह्यशक्तो दीक्षया विना ॥४५॥
 ॥ईश्वर उवाच॥
अथ पूजाविधानं ते कथयामि यशस्विनि ॥
वेदमार्गेण दिव्येन ब्राह्मणानां हिताय वै ॥४६॥
एवं संभृतसंभारः पुष्पादिप्रगुणीकृतः ॥
तत आवाहयेद्भानुं स्थापयेत्कर्णिकोपरि ॥४७॥
उपस्थानं तु वै कृत्वा मंत्रेणानेन सुव्रते ॥
[१]उदुत्यं जातवेदसमिति मंत्रः संपरिकीर्तितः ॥४८॥
अग्निं दूतेति मंत्रेण अनेनावाह्य भामिनि ॥
आकृष्णेन रजसा मंत्रेणानेन वाऽर्चयेत् ॥४९॥
हंसः शुचिषदिति मंत्रेणानेन पूजयेत् ॥
अपत्येतेति मन्त्रेण सूर्यं देवि प्रपूजयेत् ॥५०॥
अदृश्रमस्य चैतेन सूर्यं देवि समर्च्चयेत् ॥
तरणिर्विश्वदर्शेति अनेन सततं जपम् ॥५१॥
चित्रं देवानामुदेति भद्रां देवो सदार्चयेत् ॥
विभूतिमर्च्चयेन्नित्यं येना पावक चक्षसा ॥५२॥
विद्यामेपिरजस्पृथ्वित्यनेन विमलां सदा ॥
अमोघां पूजयेन्नित्यं मंत्रेणानेन सुव्रते ॥५३॥
सप्त त्वा हरितोऽनेन सिद्धिदां सर्वकर्मसु ॥
विद्युतामर्चयेद्देवं सप्त त्वा हरितेन च ॥५४॥
नवमीं पूजयेद्देवीं सततं सर्वतोमुखीम् ॥
मन्त्रेणानेन वै देवि उद्वयन्तमितीह वै ॥५५॥
उद्यन्नद्य मित्रमहः प्रथममक्षरं जपेत् ॥
द्वितीयं पूजयेद्देवि शुकेषु मे हरिमेति वै ॥५६॥
उदगादयमादित्यो ह्यनेनापि तृतीयकम् ॥
तत्सवितुर्वरेण्येति चतुर्थं परिकीर्तितम् ॥५७॥
महाहिवो महायेति पञ्चमं परिकीर्तितम् ॥
हिरण्यगर्भः समवर्तत षष्ठं बीजं प्रकीर्तितम् ॥५८॥
सविता पश्चातात्सविता सप्तमं वरवर्णिनि ॥
एवं बीजानि विन्यस्य आदित्यं स्थापयेच्छुभे ॥५९॥
आदित्यं स्थापयित्वा तु पश्चादङ्गानि विन्यसेत् ॥६०॥
आग्नेय्यां हृदयं न्यस्य ऐशान्यां तु शिरो न्यसेत् ॥
नैर्ऋत्यां तु शिखां चैव कवचं वायुगोचरे ॥६१॥
अस्त्रं दिशासु विन्यस्य स्वबीजेन तु कर्णिकाम् ॥
अमोसि प्राणितेनेति अनेन हृदयं यजेत् ॥६२॥
शिरस्तु पूजयेद्देवि आयुष्यं वर्चसेति वै ॥
गायत्र्या तु शिखां पूज्य नैर्ऋत्यां तु व्यवस्थिताम् ॥६३॥
जीमूतस्येव भवति प्रत्येकं कवचं यजेत् ॥
धन्वन्नागा धन्वनेति अनेनास्त्रं सदाऽर्चयेत् ॥६४॥
नेत्रं तु पूजयेद्देवि अश्विना तेजसेति च ॥
ह्यतः पूर्वतः सोमं दक्षिणेन बुधं तथा ॥६५॥
पश्चिमेन गुरुं न्यस्य उत्तरेण च भार्गवम् ॥
आग्नेय्यां मङ्गलं न्यस्य नैर्ऋत्यां तु शनैश्चरम् ॥६६॥
वायव्यां तु न्यसेद्राहुं केतुमीशानगोचरे ॥
आप्यायस्वेति मन्त्रेण देवि सोमं सदार्चयेत् ॥६७॥
उद्बुध्यध्वं महादेवि बुधं तत्र सदार्चयेत् ॥
बृहस्पतेति मन्त्रेण पूजयेत्सततं गुरुम् ॥६८॥
शुक्रः शुशुक्वानिति च भार्गवं देवि पूजयेत् ॥
अग्निर्मूर्द्धेति मन्त्रेण सदा मंगलमर्चयेत् ॥६९॥
शमग्निरितिमन्त्रेण पूजयेद्भास्करात्मजम् ॥
कयानश्चित्रेतिमन्त्रेण देवि राहुं सदाऽर्चयेत् ॥७०॥
केतुं कृण्वेति केतुं वै सततं पूजयेद्बुधः ॥
बाह्यतः पूर्वतः शुक्रं दक्षिणेन यमं तथा ॥७१॥
ऐशान्यामीश्वरं विंद्यादाग्नेय्यामग्निरुच्यते ॥
नैऋतेति विरूपाक्षं पवनं वायुगोचरे ॥७२॥
तमुष्टवाम इति वै ह्यनेनेन्द्रमथार्चयेत् ॥
उदीरतामवरेति सदा वैवस्वतं यजेत् ॥७३॥
तत्त्वायामीति मन्त्रेण वरुणं देवि पूजयेत् ॥
इन्द्रासोमावत इति मन्त्रेण धनदं यजेत् ॥७४॥
पावकं पूजयेद्देवि अग्निमीळे पुरोहितम् ॥
रक्षोहणं वाजिनेति विरूपाक्षं सदार्चयेत् ॥७५॥
वायवायाहि मन्त्रेण वायुं देवि सदार्चयेत् ॥
यथाक्रममिमान्देवि सर्वान्वै पूजयेद्बुधः ॥७६॥
बाह्यतः पूर्वतो देवि इन्द्रादीनां समन्ततः ॥
रक्तवर्णं महातेजं सितपद्मोपरि स्थितम् ॥७७॥
सर्वलक्षणसंयुक्तं सर्वाभरणभूषितम् ॥
द्विभुजं चैकवक्त्रं च सौम्यपञ्चकधृक्करम् ॥७८॥
वर्त्तुलं तेजबिंबं तु मध्यस्थं रक्तवाससम् ॥
आदित्यस्य त्विदं रूपं सर्वलोकेषु पूजितम् ॥
ध्यात्वा संपूजयेन्नित्यं स्थंडिलं मण्डलाश्रयम् ॥७९॥
 ॥देव्युवाच॥
मण्डलस्थः सुरश्रेष्ठ विधिना येन भास्करः ॥
पूज्यते मानवैर्भक्त्या स विधिः कथितस्त्वया ॥८०॥
पूजयेद्विधिना येन भास्करं पद्मसंभवम् ॥
मूर्त्तिस्थं सर्वगं देवं तन्मे कथय शंकर ॥८१॥॥
 ॥ईश्वर उवाच॥
साधुसाधु महादेवि साधु पृष्टोऽस्मि सुवते ॥
शृणुष्वैकमना देवि मूर्तिथं येन पूजयेत् ॥८२॥
इषेत्वेति च मन्त्रेण उत्तमांगं सदार्चयेत् ॥
अग्निमीळेति मन्त्रेण पूजयेद्दक्षिणं करम् ॥८३॥
अग्न आयाहि मन्त्रेण पादौ देवस्य पूजयेत् ॥
आजिघ्रेति च मन्त्रेण पूजयेत्पुष्पमालया ॥८४॥
योगेयोगेति मन्त्रेण मुक्तपुष्पांजलिं क्षिपेत् ॥
समुद्रागच्छ यत्प्रोक्तमनेन स्नापयेद्रविम् ॥८५॥
इमं मे गंगेति यत्प्रोक्तमनेनापि च भामिनि ॥
समुद्रज्येति मन्त्रेण क्षालयेद्विधिवद्रविम् ॥८६॥
सिनीवालीति मन्त्रेण स्नापयेच्छंखवारिणा ॥
यज्ञं यज्ञेति मन्त्रेण कषायैः परिरक्षयेत् ॥८७॥
स्नापयेत्पयसा देवि आप्यायस्वेति मंत्रतः ॥
दधिक्राव्णेति वै दध्ना स्नापयेद्विधिवद्रविम् ॥८८॥
इमं मे गंगेति यत्प्रोक्तमनेनापि च भामिनि ॥
समुद्रज्येति मंत्रेण स्नानमौषधिभिः स्मृतम् ॥८९॥
उद्वर्तयेत्ततो भानुं द्विपदाभिर्वरानने ॥
मानस्तोकेति मंत्रेण युगपत्स्नानमाचरेत् ॥९०॥
विष्णोरराटमन्त्रेण स्नापयेद्गंधवारिणा ॥
सौवर्णेन तु मंत्रेण अर्घ्यं पाद्यं निवेदयेत् ॥९१॥
इदं विष्णुर्विचक्रमे मंत्रेणार्घ्यं प्रदापयेत् ॥
वेदोसीति च मंत्रेण उपवीतं प्रदापयेत् ॥९२॥
बृहस्पतेति मंत्रेण दद्याद्वस्त्राणि भानवे ॥
येन श्रियं प्रकुर्वाणः पुष्पमालां प्रपूजयेत् ॥९३॥
धूरसीति च मंत्रेण धूपं दद्यात्सगुग्गलम् ॥
समिद्धोंजनमंत्रेण अंजनं तु प्रदापयेत् ॥९४॥
युंजान इति मंत्रेण भानुं रोचनमालभेत् ॥
आरार्त्तिकं च वै कुर्याद्दीर्घायुत्वाय वै पुनः ॥९५॥
सहस्रशीर्षा पुरुषः सूर्यं शिरसि पूजयेत् ॥
शंभवायेति मंत्रेण रवेर्नेत्रे परामृशेत् ॥९६॥
विश्वतश्चक्षुरित्येवं भानोर्देहं समालभेत् ॥
श्रीश्च ते लक्ष्मीश्चेति सर्वांगे पूजयेद्रविम् ॥९७॥
 ॥ईश्वर उवाच । ॥
अथ मेरो[२]र्महादेवि अष्टशृंगस्य सुव्रते ॥
पूजाविधानमंत्रांस्ते कथयामि समासतः ॥९८॥
अष्टशृंगं महादेवि अनेन विधिनाऽर्चयेत् ॥
प्रथमं पूजयेन्मध्ये मंत्रेणानेन सुव्रते ॥९९॥
महाहिवोमहायेति नानापुष्पकदंबकैः ॥
त्रातारमिंद्रमंत्रेण पूर्वशृंगं सदार्चयेत् ॥१००॥
तमुष्टवामेति मंत्रेण पूजयेत्सुरसुन्दरि ॥
अग्निमीळे पुरोहितमाग्नेयं शृंगमर्चयेत् ॥१०१॥
आग्नेय्या चैव गायत्र्या अथवानेन पूजयेत् ॥
यमाय त्वा मखाय त्वा दक्षिणं शृंगमर्च येत् ॥१०२॥
उदीरतामवरेप्यथवानेन पूजयेत् ॥
आयं गौरिति मंत्रेण नैर्ऋत्यं शृङ्गमर्चयेत् ॥१०३॥
रक्षोहणं वाजिनं वा पूजयेदसुरांतिकम्॥
इंद्रासोमा च यो मंत्रो ह्यथवा तेन पूजयेत् ॥१०४॥
अभि त्वा सूर नोन्विति चैशानं शृंगमर्चयेत् ॥
येनेदं भूतमिति वा अथवानेन पूजयेत् ॥१०५॥
नमोस्तु सर्पेभ्य इति मेरुपीठं सदाऽर्चयेत् ॥
हिरण्यगर्भः समवर्त्ततेति पुनर्मध्ये सदार्चयेत् ॥१०६॥
सविता पश्चातादिति वै पूजयेत्पुष्प मालया ॥
त्रिकालमर्चयेद्देवि प्रदद्यादर्घ्यमादरात् ॥१०७॥
माता रुद्राणां दुहिता वसूनां पूर्वाह्ने चैव पूजयेत् ॥
मध्याह्ने पूजयेद्देवि तद्विष्णोः परमं पदम् ॥१०८॥
हँसः शुचिषदिति वा अपराह्णे सदार्चयेत् ॥
एवं भानुं ग्रहैः सार्द्ध पूजयेद्वरवर्णिनि ॥१०९॥
 ॥देव्युवाच॥
यानि पुष्पाणि चेष्टानि सदा भास्करपूजने ॥
कानि चोक्तानि देवेश कथयस्व प्रसादतः ॥११०॥
ईश्वर उवाच॥
शृणु देवि प्रवक्ष्यामि पुष्पा ध्यायमनुत्तमम् ॥
येन चार्कस्थले देवि शीघ्रं तुष्यति पूजितः ॥१११॥
मालतीकुसुमैः पूजा भवेत्सांनिध्यकारिका ॥
मल्लिकायाश्च कुसुमैर्भोगवाञ्जायते नरः ॥११२॥
सौभाग्यं पुंडरीकैस्तु भवत्यर्थश्च शाश्वतः ॥
कदंबपुष्पैर्देवेशि परमैश्वर्यमश्नुते ॥११३॥
भवत्यक्षयमन्नं च बकुलै रर्चने रवेः ॥
मंदारपुष्पकैः पूजा सर्वकुष्ठविनाशिनी ॥११४॥
बिल्वस्य पत्रकुसुमैमहतीं श्रियमश्नुते ॥
अर्कस्रजा भवत्यर्थः सर्वकामफलप्रदः ॥ ॥११५॥
प्रदद्याद्रूपिणीं कन्यां पूजितो बकुलस्रजा ॥
किंशुकैरर्चितो देवि न पीडयति भास्करः ॥११६॥
अगस्तिकुसुमैस्तद्वदानुकूल्यं प्रयच्छ ति ॥
करवीरैस्तु देवेशि सूर्यस्यानुचरो भवेत् ॥११७॥
शतपत्रस्रजा देवि सूर्यसालोक्यतां व्रजेत् ॥
बकपुष्पैर्महादेवि दारिद्यं नैव जायते ॥११९॥
ऋतुकुसुमेन गन्धेन समभ्यर्च्य दिवाकरम् ॥
चतुःसमुद्रमर्यादां स भुंक्ते पृथिवीमिमाम् ॥११९॥
यः सूर्यायतनं भक्त्या गैरिकेणोपलेपयेत् ॥
प्राप्नुयान्महतीं लक्ष्मीं रोगैश्चापि प्रमुच्यते ॥१२०॥
अष्टादशेह कुष्ठानि ये चान्ये व्याधयो नृणाम् ॥
प्रलयं यांति ते सर्वे मृदा यद्युपलेपयेत् ॥ ॥१२१॥
विलेपनानां सर्वेषां कुंकुमं रक्तचंदनम् ॥
पुष्पाणां करवीराणि प्रशस्तानि वरानने ॥१२२॥
नातः परतरं किंचिद्भास्वतस्तुष्टिकारकम् ॥
यादृशं कुङ्कुमं जाती शतपत्रं तथाऽगुरुः ॥१२३॥
किं तस्य न भवेल्लोके यश्चैभिश्चार्चयेद्रविम् ॥
उपलिप्यालयं यस्तु कुर्यान्मंडलकं शुभम् ॥१२४॥
एकेनास्य भवेदर्थो द्वाभ्यामारोग्यमश्नुते ॥
त्रिभिस्तु सर्वविद्यावांश्चतुर्भिर्भोगवान्भवेत् ॥१२५॥
पंचभिर्विपुलं धान्यं षड्भिरायुर्बलं यशः॥
सप्तमण्डलतारी स्यान्मंडलाधिपतिर्नरः ॥१२६॥
घृतदीपप्रदानेन चक्षुष्माञ्जायते नरः ॥
कटुतैलस्य दीपेन स्वं शत्रुं जयते नरः ॥१२७॥
तैलदीपप्रदानेन सूर्यलोके महीयते ॥
मधूकतैलदीपेन सौभाग्यं परमं लभेत् ॥१२८. ॥
पुष्पाणां प्रवरा जाती धूपानां विजयः परः ॥
गन्धानां कुंकुमं श्रेष्ठं लेपानां रक्तचंदनम् ॥१२९॥
दीपदाने घृतं श्रेष्ठं नैवेद्ये मोदकः परम् ॥
एतैस्तुष्यति देवेशः सांनिध्यं चाधिगच्छति ॥१३०॥
एवं संपूज्य विधिवत्कृत्वा पितृप्रदक्षिणाम् ॥
प्रणम्य शिरसा देवं तत्र चार्कस्थलं प्रिये ॥१३१॥
सुखासीनस्ततः पश्येद्रवेरभिमुखे स्थितः ॥
एकं सिद्धार्थकं कृत्वा हस्ते पानीयसंयुतम् ॥१३२॥
कामं यथेष्टं हृदये कृत्वार्कस्थलसन्निधौ ॥
पिबेत्सतोयं तद्देवि ह्यस्पृष्टं दशनैः सकृत् ॥१३३॥
एवं कृत्वा नरो देवि कोटियात्राफलं लभेत् ॥
ब्रह्मा विष्णुर्महादेवो ज्वलनो धनदस्तथा ॥१३४॥
भानुमाश्रित्य सर्वे ते मोदन्ते दिवि सुव्रते ॥
तस्माद्भानुसमं देवं नाहं पश्यामि कञ्चन ॥१३५॥
इति कृत्वा महादेवि पुनर्भानौ प्रदक्षिणम् ॥
कुर्यान्मन्त्रेण देवेशि सप्तकृत्वो वरानने ॥१३६॥
तमुष्टवाम इति ऋक्प्रथमा परिकीर्तिता ॥
एतोन्विन्द्रं स्तवामेति द्वितीया परिकीर्तिता ॥१३७॥
इंद्र शुद्धो न आगहि तृतीया परिकीर्तिता ॥
इन्द्रं शुद्धो हि नो रयिं चतुर्थी परिकीर्तिता ॥१३८॥
अस्य वामस्येति शुभे पञ्चमी परिकीर्तिता ॥
त्रिभिष्ट्वं देव इति वै षष्ठी च परिकीर्तिता ॥१३९॥
दश सामानि वै यानि प्रवराणि मनीषिभिः ॥
गीतानि सामगैर्नित्यं सप्तमीं तैस्तु कारयेत् ॥१४॥।
तानि ते कथयाम्यद्य दश सामानि सुन्दरि॥
हुंकारः प्रणवोद्गीथः प्रस्तावश्च चतुष्टयम् ॥१४१॥
पञ्चमं प्रहरो यत्र षष्ठमारण्यकं तथा ॥
निधनं सप्तमं साम्नां सप्तसिद्धिमिति स्मृतम् ॥१४२॥
पञ्चविध्यमिति प्रोक्तं ह्रींकारप्रणवेन तु ॥
अष्टमं च तथा साध्यं नवमं वामदेवकम् ॥१४३॥
ज्येष्ठं तु दशमं साम वेधसे प्रियमुत्तमम् ॥
एतेषां देवि साम्नां वै जाप्यं कार्यं विधानतः ॥१४४॥
ज्येष्ठसामपरं चैव द्वितीयं गदतः शृणु ॥
न च श्राव्यं द्वितीयं तु जप्तव्यं मुक्तिमिच्छता ॥१४५॥।
तज्जाप्यं परमं प्रोक्तं स्वयं देवेन भानुना ॥
जाप्यस्य विनियोगोऽस्य लक्षणं च निबोध मे ॥
स्तोभसारं श्वासलीनमोंकारादि स्मृतं बुधैः ॥१४६॥
ऊर्भानुश्च तथा धर्मं धर्मः सत्यं ह्यृत तथा ॥
धर्मं ये धर्मवद्धर्मे धर्मे वै निधनं गताः ॥१४७॥
यदेभिश्च यजेच्छब्दैरुचितं सामगैर्द्विजैः ॥
जाप्यं चैतत्परं प्रोक्तं स्वयं देवेन भानुना ॥१४८॥
एतद्वै जप्यमानस्तु पुनरावर्तते न तु ॥
सर्वरोगविनिर्मुक्तो मुच्यते ब्रह्महत्यया ॥१४९॥
आज्यदोहाद्यदोहेति ज्येष्ठसाम्नोऽपि लक्षणम् ॥१५०॥
इति संपूज्य देवेशं ततः कुर्यात्परां स्तुतिम् ॥
ऋग्भिर्वे पंचभिश्चैव शृणुष्वैकमनास्तु ताः ॥१५१॥
उक्षाणं पृश्निमिति वै प्रथमा परिकीर्तिता ॥
चत्वारि वाक्परीति वै द्वितीया परिकीर्तिता ॥१५२॥
इंद्रं मित्रं तृतीया तु ऋक्चैव परिकीर्तिता ॥
कृष्णं नियानं हि तथा चतुर्थी परिकीर्तिता ॥१५३॥
द्वादशप्रथम इति पंचमी परिकीर्तिता ॥
यो रत्नवाहीत्यनया किरीटं योजयेद्रवेः ॥१५४॥
गतेहनामित्यनया अव्यंगं भास्करं न्यसेत् ॥
अनेन विधिना देवि पूजयेद्विधिवद्रविम् ॥१५५॥
इत्येष ते मया ख्यातः प्रतिमापूजने विधिः ॥ ॥१५६॥
अनेनविधिना यस्तु सततं पूजयेद्रविम् ॥
स प्राप्नोत्यधिकान्कामानिह लोके परत्र च ॥१५७॥
पुत्रार्थी लभते पुत्रं धनार्थी लभते धनम् ॥
कन्यार्थी लभते कन्यां विद्यार्थी वेदविद्भवेत् ॥१५८॥
निष्कामः पूजयेद्यस्तु स मोक्षं याति वै ध्रुवम् ॥
अस्य क्षेत्रस्य माहात्म्यादर्कसूर्यप्रभावतः ॥१५९॥
अन्यत्र ब्राह्मणानां च कोटिना यत्फलं लभेत्॥
अर्कस्थले तथैकेन भोजितेन तु तत्फलम् ॥१६०॥
स्नानं दानं जपो होमः सूर्यपर्वणि यत्कृतम्॥
तत्सर्वं कोटिगुणितं सूर्यकोटिप्रभावतः ॥१६१॥
माघमासे नरो यस्तु सप्तम्यां रविवासरे ॥
कृष्णपक्षे महादेवि जागरं श्रद्धयाऽऽचरेत् ॥
अर्कस्थलसमीपे तु स याति परमां गतिम् ॥१६२॥
गोशतस्य प्रदत्तस्य कुरुक्षेत्रे च यत्फलम् ॥
तत्फलं समवाप्नोति तत्रार्कस्थलदर्शनात् ॥१६३॥
अर्कस्थलः पूजनीयस्तत्र स्थाने निवासिभिः ॥
जपापुष्पैरर्कपुष्पै रोगिभिस्तु विशेषतः ॥१६४॥
न च पत्रोर्णकुसुमैर्न चैवोन्मत्तसंभवैः ॥
न चाम्रातकजैः पुष्पैरर्चनीयो दिवाकरः ॥१६५॥
आम्रातकस्य कुसुमं निर्माल्यमिव दृश्यते ॥
अप्रत्यग्रं बहिर्यस्मात्तस्मात्तत्परिवर्जयेत् ॥१६६॥
नाविज्ञातं प्रदातव्यं न म्लानं न च दूषितम् ॥
न च पर्य्युषितं माल्यं दातव्यं भूतिमिच्छता ॥१६७॥
देवमुल्लोचयेद्यस्तु तत्क्षणात्पुष्पलोभतः ॥
पुष्पाणि च सुगन्धानि भोजकेनेतराणि च ॥१६८॥
ब्रह्महत्यामवाप्नोति भोजको लोभमोहितः ॥
महारौरवमासाद्य पच्यते शाश्वतीः समाः ॥१६९॥
हन्त ते कीर्त्तयिष्यामि धूपदानविधिं परम् ॥
प्रदानाद्देवदेवस्य येन धूपेन यत्फलम् ॥१७०॥
सदार्चने च धूपेन सामीप्यं कुरुते रविः ॥
प्रदद्यात्सकलं कामं यद्यदिच्छति मानवः ॥१७१॥
तथैवागुरुधूपेन निधिं दद्यादभीप्सितम् ॥
आरोग्यार्थी धनार्थी च नित्यदा गुग्गलं दहेत् ॥१७२॥
पिंडातधूपदानेन सदा तुष्यति भानुमान् ॥
आरोग्यं च स्वयं दद्यात्सौख्यं च परमं भवेत् ॥१७३॥
श्रीवासकस्य धूपेन वाणिज्यं सकलं लभेत्॥
रसं सर्जरसं चैव दहतोऽर्थागमो भवेत् ॥१७४॥
देवदारुं च दहतो भवत्यन्नमथाक्षयम्।.
विलेपनं कुंकुमेन सर्वकामफलप्रदम् ॥१७५॥
इह लोके सुखी भूत्वा अक्षयं स्वर्गमाप्नुयात्॥
चंदनस्य प्रलेपेन श्रियमायुश्च विंदति ॥१७६॥
रक्तचन्दनलेपेन सर्वं दद्याद्दिवाकरः ॥
अपि रोगशतैर्ग्रस्तः क्षेममारोग्यमाप्नुयात् ॥१७७॥
गतिगंधं च सौभाग्यं परमं विंदते नरः ॥
कस्तूरिकामर्दनकैरैश्वर्यमतुलं लभेत् ॥१७८॥
कर्पूरसंयुतैर्गंधैः क्ष्माधिपाधिपतिभवेत् ॥
चतुःसमेन गंधेन सर्वा न्कामानवाप्नुयात् ॥१७९॥
एतत्ते कथितं देवि सूर्यमाहात्म्यमुत्तमम् ॥
सविस्तरं मया ख्यातं किमन्यत्परिपृच्छसि ॥१८०॥।
 ॥देव्युवाच॥
यद्येवं भगवान्सूर्यः सर्वतेजस्विनां वरः ॥
स कथं ग्रस्यते देव सैंहिकेयेन राहुणा ॥१८१॥
 ॥ईश्वर उवाच॥
शृणु दैवि प्रवक्ष्यामि सर्व पापप्रणाशनम् ॥
कारणं ग्रहणस्यापि भ्रांतेर्विच्छेदकारकम् ॥१८२॥
राहुरादित्यबिंबस्याधस्तात्तिष्ठति भामिनि ॥
अमृतार्थी विमानस्थो यावत्संस्रवतेऽमृतम् ॥१८३॥
बिंबेनांतरितो देवि आदित्यग्रहणं हि तत् ॥
न कश्चिद्ग्रसितुं शक्त आदित्यो दहति ध्रुवम् ॥१८४॥
ब्रह्मादयस्तमर्चंति स आदिः सर्वनाकिनाम् ।१
आदित्यदेहजाः सर्वे तथान्ये देवदानवाः ॥१८५॥
आदिकर्त्ता स्वयं यस्मादादित्यस्तेन चोच्यते ॥
प्रभासे संस्थितो देवः सर्वपातकनाशनः ॥१८६॥
भुक्तिमुक्तिप्रदो देवो व्याधिदुष्कृतनाशकृत् ॥
तत्र सिद्धाः पुरा देवि लोकपाला महर्षयः ॥१८७॥
सिद्धा विद्या धरा यक्षा गंधर्वा मुनयस्तथा ॥
धनदोऽपि तथा भीष्मो ययातिर्गालवस्तथा ॥१८८॥
सांबश्चैव तथा देवि परां सिद्धिमितो गताः ॥
इदं रहस्यं देवेशि सूर्यमाहात्म्यमुत्तमम् ॥१८९॥
न देयं दुष्टबुद्धीनां पापिनां च विशेषतः ॥
न नास्तिकेऽश्रद्दधाने न क्रूरं वा कथंचन ॥१९०॥
इमां कथामनुब्रूयात्तथा नाऽसूयके शिवे ।
इदं पुत्राय शिष्याय धर्मिणे न्यायवर्तिने ॥१९१॥
कथनीयं महाब्रह्म सूर्यभक्ताय सुव्रते ॥
अर्कस्थलस्य देवस्य माहात्म्यमिदमुत्तमम् ॥१९२॥
यः श्राद्धे श्रावयेद्देवि ब्राह्मणान्संशितव्रतान् ॥
तस्यानंतं भवेद्देवि यद्दानं पुरुषस्य वै ॥१९३॥
यत्रेदं कीर्त्त्यते पुण्यं संपदस्तत्र वै सदा ।१
यातुधाना न हिंसंति तच्छ्राद्धं भयविह्वलाः ॥१९४॥
पंक्तिपावनतां यांति येऽपि वै पंक्तिदूषकाः ॥
सुतवाञ्जन्मवांश्च स्यात्सर्वकाममनोरमः ॥१९५॥
प्रवासिभिर्बंधुवर्गैः संयुज्येत सदा नरः ॥
नष्टैः संयुज्यते चार्थैरपरैश्चापि चिंतितैः ॥१९६॥
रक्ष्यते यागिनीभिश्च प्रियैश्च न वियुज्यते ॥
उपस्पृश्य शुचिर्भूत्वा शृणुयाद्ब्राह्मणः सदा ॥
सर्वान्कामांश्च लभते नात्र कार्या विचारणा ॥१९७॥
वैश्यः समृद्धिमतुलां क्षत्रियः पृथिवीपतिः॥
वणिजश्चापि वाणिज्यमखंडं शतसंख्यया॥
लभेयुः कीर्तनादस्याः सूर्योत्पत्तेर्वरानने ॥१९८॥
शूद्राश्चैवाभिलषितान्कामान्प्राप्स्यंति भामिनि॥
अपमृत्युभयं घोरं मृत्युतोऽपि महाभयम् ॥१९९।
नश्यते नात्र संदेहो राजद्वारकृतं च यत्॥
सर्वकामसमृद्धात्मा सूर्यलोके महीयते ॥२००॥
इत्येतत्कथितं देवि माहात्म्यं सूर्यदैवतम् ॥
अर्कस्थलप्रसंगेन किमन्यच्छ्रोतुमिच्छसि॥। ॥२०१॥
स्थानं शाश्वतमोजसां गतिरपां दीपो दिशामक्षयः सिद्धेर्द्वारमपावभेदि जगतां साधारणं लोचनम्॥
हैमं पुष्करमंतरिक्षसरसो दीप्तं दिवः कुण्डलं कालोन्मानविभावनाक्षतलयं बिंबं रवेः पातु वः ॥२०२॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्येऽर्क्कस्थलमाहात्म्यार्कस्थलपूजाविधानादिवर्णनंनाम सप्तदशोऽध्यायः ॥१७॥

N/A

References : N/A
Last Updated : January 07, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP