संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय १०९

प्रभासक्षेत्र माहात्म्यम् - अध्याय १०९

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
ततो गच्छेन्महादेवि अनिलेश्वरमुत्तमम्॥
तस्योत्तरेशानदिक्स्थं धनुषां त्रितये प्रिये ॥१॥
लिंगं महाप्रभावं हि दर्शनात्पापनाशनम् ॥
वसूनां पञ्चमो योऽसावनिलः परिकीर्तितः ॥२॥
स चाऽऽराध्य महादेवं प्रत्यक्षीकृतवान्भवम् ॥
लिंगं प्रतिष्ठयामास सम्यक्छ्रद्धासमन्वितः ॥३॥
एवमीशप्रभावेन सुतस्तस्याऽप्यभूद्बली ॥
मनोजवेति विख्यातो ह्यविज्ञातगतिस्तथा ॥४॥
तं दृष्ट्वा व्याधिना मर्त्यो पीड्यते न कदाचन ॥
नान्धो न बधिरो मूको न रोगी न च निर्धनः ॥
कदाचिज्जायते मर्त्यस्तेन दृष्टेन भूतले ॥५॥
पुष्पमेकं तु यो दद्यात्तस्य लिंगस्य चोपरि ॥
सुखसौभाग्यसंपन्नः स सदा रूपवान्भवेत् ॥६॥
इत्येवं कथितं देवि माहात्म्यं पापनाशनम्॥
श्रुत्वाऽनुमोद्य भावेन सर्वकामैः समृद्ध्यते ॥७॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये ऽनिलेश्वरमाहात्म्यवर्णनंनाम नवोत्तरशतत मोऽध्यायः ॥१०९॥

N/A

References : N/A
Last Updated : January 10, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP