संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय ३३५

प्रभासक्षेत्र माहात्म्यम् - अध्याय ३३५

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
ततः पश्चिमतो गच्छेन्न्यंकुमत्यास्तटे शुभे ॥
दक्षिणां दिशमाश्रित्य स्थितं तीर्थं महाप्रभम् ॥१॥
शंखावर्त्तमितिख्यातं यत्र चित्रांकिता शिला ॥
स्वयंभूता महादेवि रक्तगर्भा सुशोभना ॥२॥
छिन्ने त्वद्यापि तत्रैव सुरक्तं संप्रदृश्यते ॥
विष्णुक्षेत्रं हि तत्प्रोक्तं शंखो यत्र हतः पुरा ॥३॥
वेदापहारी देवेशि विष्णुना प्रभविष्णुना ॥
कृतं शखोदकं तीर्थं शंखाकारं तु दृश्यते ॥४॥
तत्र स्नात्वा नरो देवि मुच्यते ब्रह्महत्यया ॥
सप्त जन्मानि विप्रत्वं शूद्रस्यापि प्रजा यते ॥५॥
पूर्वं तत्रैव गत्वा च ततो रुद्रगयां व्रजेत् ॥
गोदानं तत्र देयं तु सम्यग्यात्राफलेप्सुभिः ॥६॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये शंखावर्त्ततीर्थमाहात्म्यवर्णनंनाम पञ्चत्रिंशदुत्तरत्रिशत तमोऽध्यायः ॥३३५॥

N/A

References : N/A
Last Updated : January 13, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP