संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय ९६

प्रभासक्षेत्र माहात्म्यम् - अध्याय ९६

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
ततोगच्छेन्महादेवि कामेश्वरमिति स्मृतम् ॥
तस्यैवोत्तरदिग्भागे धनुषां त्रितये स्थितम् ॥
रतीश्वरमिति ख्यातं त्रेतायां तत्सुरे श्वरि ॥१॥
यस्मिन्दृष्टे मनुष्याणां पूजिते तु वरानने ॥
नश्येच्च सप्तजन्माघं गृहभंगश्च नो भवेत् ॥२॥
 ॥देव्युवाच॥
केनायं स्थापितो देव कस्मात्प्रोक्तो रतीश्वरः ॥
दर्शनेनास्य किं श्रेयः सर्वं विस्तरतो वद ॥३॥
 ॥ईश्वर उवाच॥
शृणु देवि प्रवक्ष्यामि कथां पापप्रणाशिनीम् ॥
रतिर्नामाभवत्साध्वी कामपत्नी यशस्विनी ॥४॥
दग्धे मनसिजे पूर्वं देवेन त्रिपुरारिणा॥
तदर्थाय तपस्तेपे तस्मिन्देशे रतिः किल ॥५॥
अंगुष्ठाग्रेण तिष्ठन्त्या यावद्युगचतुष्टयम् ॥
आराधितो महादेवः शांतेन मनसा प्रिये ॥६॥
कस्मिंश्चिदथ काले तु निर्भिद्य धरणीतलम् ॥
तदग्रतः समुत्तस्थौ लिगं माहेश्वरं प्रिये ॥७॥
एतस्मिन्नेव काले तु वागुवाचाशरीरिणी ॥
आह्लादयंती सहसा तस्याश्चित्तं वरानने ॥८॥
यस्मान्माहेश्वरं लिंगं त्वद्भक्त्या सहसोत्थितम् ॥
पूजयेस्तन्महाभागे ततः कांतमवाप्स्यसि ॥९॥
एतच्छुत्वा तु सा साध्वी देवदूतस्य भाषितम्॥
तल्लिंगं पूजयामास स भक्त्या परमया युता ॥१०॥
ततः कामः समुत्तस्थौ सुप्तोत्थित इव प्रिये ॥
ततः प्रभृति तल्लिंगं कामेश्वरमिति श्रुतम् ॥११॥
ततः सा कामदयिता वाक्यमेतदुवाच ह ॥
प्रहृष्टा कामदेवाप्त्या पुरतः पुष्पधन्वनः ॥१२॥
पूजयिष्यंति ये चान्ये लिंगमेतत्समाहिताः ॥
एवं ते वांछितां सिद्धिं भूयो यास्यंति सद्गतिम् ॥१३॥
मनोऽभीष्टं तथा सर्वं यद्यपि स्यात्सदुर्ल्लभम् ॥
तत्प्राप्स्यंति न संदेहो लिंगस्यास्य प्रसादतः ॥ ॥१४॥
एवमुक्त्वा गता साध्वी रतिः कामेन संयुता ॥
स्वस्थाने पूर्णकामा सा प्रहृष्टेनांतरात्मना ॥१५॥
एनं चैत्रत्रयोदश्यां शुक्लायां यः समर्चति ॥
सकामवद्भवेन्नृणां श्रुतं सौभाग्यदायकम् ॥१६॥
हृति श्रीस्कांदेमहापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य एकादशरुद्रमाहात्म्ये कामेश्वरमाहात्म्यवर्णनंनाम षण्णवतितमोऽध्यायः ॥९६॥

N/A

References : N/A
Last Updated : January 08, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP