संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय ४५

प्रभासक्षेत्र माहात्म्यम् - अध्याय ४५

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
ततो गच्छेन्महादेवि अंगारेश्वरमुत्तमम् ॥
स्थापितं भूमिपुत्रेण सोमेशादीश गोचरे ॥१॥
त्रिपुरं दग्धुकामस्य पुरा मम वरानने ॥
क्रोधादश्रु विनिष्क्रांतं लोचनत्रितयेन तु ॥२॥
तच्च भूमौ निपतितं ततो भूभिसुतोऽभवत् ॥
स प्रभासं ततो गत्वा बाल्यात्प्रभृति शंकरम् ॥३॥
तपसाऽऽराधयामास बहून्वर्षगणान्प्रिये ॥
तस्य तुष्टो महादेवः सुप्रीतात्मा वरं ददौ ॥४॥
सोऽब्रवीद्यदि मे देव तुष्टोसि वृषभध्वज ॥
ग्रहत्वं देहि सर्वेश न चान्यं वरमुत्सहे ॥५॥
स तथेति प्रतिज्ञाय पुनस्तं वाक्यमब्रवीत् ॥
इहागत्य नरो यो मां पूजयिष्यति भक्तितः ॥६॥
न भविष्यति वै पीडा तावकी तस्य कुत्रचित् ॥
पुष्पाणि रक्तवर्णानि मध्वाज्याक्तानि भूरिशः ॥७॥
होमयिष्यति यो भक्त्या लक्षमेकं तदग्रतः ॥
पंचोपचारविधिना त्वां तु संपूज्य यत्नतः ॥८॥
तस्य जन्मावधिर्नैव तव पीडा भविष्यति ॥।
तथा विद्रुमदानेन लप्स्यते फलमीप्सितम् ॥९॥
एवमुक्त्वा स भगवानत्रैवांतरधीयन ॥
भौमोऽपि ग्रहमध्यस्थो विमानेन विराजते ॥१०॥
एवं संक्षेपतः प्रोक्तं भौममाहात्म्यमुत्तमम्॥
श्रुतं हरति पापानि तथारोग्यं प्रयच्छति ॥११॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्येंऽगारेश्वरमाहात्म्यवर्णनंनाम पञ्चचत्वारिंशोध्यायः ॥४५॥

N/A

References : N/A
Last Updated : January 07, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP