संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय १२५

प्रभासक्षेत्र माहात्म्यम् - अध्याय १२५

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
ततो गच्छेन्महालिंगं महादेवि सुरप्रियम् ॥
रावणेश्वरवायव्ये धनुषां त्रिंशकेऽन्तरे ॥१॥
स्थितं कामप्रदं लिंगं सर्वपातकनाशनम् ॥
पौलोमीश्वरनामाढचं पौलोम्या संप्रतिष्ठितम् ॥२॥
तारकेण यदा ध्वस्तास्त्रिदशाः संगरे स्थिताः ॥
त्रैलोक्यं विहृतं सर्वं स्वयमिन्द्रत्वमागतः ॥३॥
तदा शक्रः सुदुःखार्तो भयोद्विग्नो ननाश वै ॥
तदा तद्भार्यया देवि इन्द्राण्या शोककर्षया ॥४॥
इन्द्रस्य जयमिच्छन्त्या शंभुराराधितस्तया ॥
ततस्तुष्टो महादेवस्तामुवाच शुभेक्षणाम् ॥५॥
 ॥भगवानुवाच॥
उत्पत्स्यति सुतोऽस्माकं षण्मुखस्तु महाबलः ॥
तारकं दैत्यराजानं स चैनं घातयिष्यति ॥६॥
गच्छ त्वं विज्वरा भूत्वा शृणु भूयो वचश्च मे ॥७॥
अत्र स्थितमिदं लिंगं योऽस्माकं पूजयिष्यति ॥
स नूनं मे गणो भूत्वा मत्सकाशमुपेष्यति ॥८॥
एवमुक्ता गता साध्वी देवराड्यत्र संस्थितः ॥
सर्वद्दुःखविनिर्मुक्ता सर्वदैत्यभयोज्झिता ॥९॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये पौलोमोश्वरमाहात्म्यवर्णनंनाम पञ्चविंशत्युत्तरशततमोऽध्यायः ॥१२५॥

N/A

References : N/A
Last Updated : January 10, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP