संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय २८२

प्रभासक्षेत्र माहात्म्यम् - अध्याय २८२

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
ततः श्रुत्वा च शर्यातिर्वलभीस्थान संस्थितः ॥
वयस्थं च्यवनं श्रुत्वा आनन्दोद्गतमानसः ॥१॥
प्रहृष्टः सेनया सार्द्धं स प्रायाद्भार्गवाश्रमम् ॥
च्यवनं च सुकन्यां च हृष्टां देव सुतामिव ॥२॥
गतो महीपः शर्यातिः कृत्स्नानंदमहोदधिः ॥
ऋषिणा सत्कृतस्तेन सभार्यः पृथिवीपतिः ॥
तत्रोपविष्टः कल्याणीः कथाश्चक्रे महामनाः ॥३॥
अथैनं भार्गवो देवि ह्युवाच परिसांत्वयन् ॥
याजयिष्यामि राजंस्त्वां संभारानुपकल्पय ॥४॥
ततः परमसंहृष्टः शर्यातिः पृथिवीपतिः ॥
च्यवनस्य महादेवि तद्वाक्यं प्रत्यपूजयत् ॥५॥
प्रशस्तेऽहनि याज्ञीये सर्वकामसमृद्धिमत् ॥
कारयामास शर्यातिर्यज्ञायतनमुत्तमम् ॥६॥
तत्रैव च्यवनो देवि याजयामास भार्गवम् ॥
अद्भुतानि च तत्रासन्यानि तानि महेश्वरि ॥७॥
अगृह्णाच्च्यवनः सोममश्विनोर्देवयोस्तदा ॥
तमिन्द्रो वारयामास मा गृहाण तयोर्ग्रहम् ॥८.॥
 ॥इन्द्र उवाच॥
उभावेतौ न सोमार्हौ नासत्याविति मे मतिः ॥
भिषजौ देवतानां हि कर्मणा तेन गर्हितौ ॥९॥
 ॥च्यवन उवाच॥
माऽवमंस्था महात्मानौ रूपद्रविणवर्चसौ ॥
यौ चक्रतुश्च मामद्य वृंदारकमिवाजरम् ॥१०॥
समत्वेनान्यदेवानां कथं वै नेक्षते भवान्॥
अश्विनावपि देवेन्द्र देवौ विद्धि परंतप ॥११॥
 ॥इन्द्र उवाच॥
चिकित्सकौ कर्मकरौ कामरूपसमन्वितौ ॥
लोके चरंतौ मर्त्यानां कथं सोममिहार्हतः ॥१२॥
 ॥ईश्वर उवाच॥
एतदेव यदा वाक्यमाम्रेडयति वासवः ॥
अनादृत्य ततः शक्रं ग्रहं जग्राह भार्गवः ॥१३॥
ग्रहीष्यंतं ततः सोममश्विनोः सत्तमं तदा ॥
समीक्ष्य बलभिद्देव इदं वचनमब्रवीत् ॥१४॥
आभ्यामर्थाय सोमं त्वं ग्रहीष्यसि यदि स्वयम् ॥
वज्रं ते प्रहरिष्यामि घोररूपमनुत्तमम् ॥१५॥
एवमुक्तः स्वयमिन्द्रमभिवीक्ष्य स भार्गवः ॥
जग्राह विधिवत्सोममश्विभ्यामुत्तमं ग्रहम् ॥१६॥
ततोऽस्मै प्राहरत्कोपाद्वज्रमिंद्रः शचीपतिः ॥
तस्य प्रहरतो बाहुं स्तंभयामास भार्गवः ॥१७॥
स्तंभयित्वाथ च्यवनो जुहुवे मन्त्रतोऽनलम् ॥
कृत्यार्थी सुमहातेजा देवं हिंसितुमुद्यतः ॥१८॥
तत्र कृत्योद्भवो यज्ञे मुनेस्तस्य तपोबलात् ॥
मदोनाम महावीर्यो महाकायो महासुरः ॥१९॥
शरीरं यस्य निर्देष्टुमशक्यं च सुरासुरैः ॥
तस्य प्रमाणं वपुषा न तुल्यमिह विद्यते ॥२०॥
तस्यास्यं चाभवेद्घोरं दंष्ट्रा दुर्दर्शनं महत् ॥
हनुरेकः स्थितस्तस्य भूमावेको दिवं गतः ॥२१॥
चतस्रश्चापि ता दंष्ट्रा योजनानां शतंशतम् ॥
इतरे त्वस्य दशना बभूबुर्दशयोजनाः ॥२२॥
प्राकारसदृशाकारा मूलाग्रसमदर्शनाः ॥
नाम्ना पर्वतसंकाशाश्चायुतायुतयोजनाः ॥२३॥
नेत्रे रविशशिप्रख्ये भ्रुवावंतकसन्निभे ॥
लेलिहज्जिह्वया वक्त्रं विद्युच्चलितलोलया ॥
व्यात्ताननो घोरदृष्टिर्ग्रसन्निव जगद्बलात् ॥२४॥
स भक्षयिष्यन्संक्रुद्धः शतक्रतुमुपाद्रवत् ॥
महता घोरनादेन लोकाञ्छब्देन छादयन् ॥२५॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये च्यवनेश्वरमाहात्म्ये च्यवनेन नासत्ययज्ञभागप्रतिरोधकवज्र मोचनोद्यतशक्रनाशाय कृत्योद्भवमदनामकमहाऽसुरोत्पादनवृत्तान्तवर्णनंनाम द्व्यशीत्युत्तरद्विशततमोऽध्यायः ॥२८२॥

N/A

References : N/A
Last Updated : January 13, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP