संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय ३३९

प्रभासक्षेत्र माहात्म्यम् - अध्याय ३३९

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
ततो गच्छेन्महादेवि कूपं त्रैलोक्यविश्रुतम् ॥
देविकायास्तटे रम्ये हुंकारेणैव पूर्यते ॥१॥
ततोऽधस्तात्पुनर्याति सलिलं तत्र भामिनि ॥
तण्डीनाम पुरा प्रोक्तो देविकातटमास्थितः ॥२॥
तपस्तेपे महादेवि शिवभक्तिपरायणः ॥
तस्यैवं तप्यमानस्य तस्मिन्देशे वरानने ॥३॥
आजगाम मृगो वृद्धस्तं देशमन्ध दृक्प्रिये ॥
स पपात महागर्ते अगाधे जलवर्जिते ॥४॥
तं दृष्ट्वा कृपयाविष्टः स मुनिर्मौनमास्थितः ॥
हुंकारं कुरुते तत्र भूयोभूयश्च भामिनि ॥५॥
अथ हुंकारशब्देन तस्य गर्तः प्रपूरितः ॥
ततो मृगो विनिष्क्रांतः कृच्छ्रेण सलिलात्प्रिये ॥६॥
मानुषं रूपमाश्रित्य तमृषिं पर्यपृच्छत ॥
विस्मयं परमं गत्वा काम्यदं कर्मणः फलम् ॥७॥
मृगत्वे पतितश्चात्र नरो भूत्वा विनिर्गतः ॥
सोऽब्रवीत्तस्य माहात्म्यं सलिलस्य द्विजोत्तमः ॥८॥
अतोऽहं नरतां प्राप्तो नान्यदस्तीह कारणम् ॥
ततस्तत्सलिलं भूयः प्रविष्टं धरणीतले ॥९॥
ततो हुंकृतवान्भूयः स ऋषिः कौतुकान्वितः ॥
आपूरितः पुनः कूपः सलिलेन पुरा यथा ॥१०॥
ततः स कृतवान्स्नानं तथा च पितृतर्पणम्॥
मत्वा तीर्थवरं तत्र ततः प्राप्तः परां गतिम् ॥११॥
अद्यापि हुंकृते तस्मिन्सलिलौघः प्रवर्तते ॥
तत्र गत्वा नरो भक्त्या अपि पापरतोऽपि यः ॥१२॥
न मानुष्यं पुनर्जन्म प्राप्नोति जगतीतले ॥
तत्र स्नात्वा शुचिर्भूत्वा यः श्राद्धं कुरुते नरः ॥१३॥
मुच्यते सर्वपापेभ्यः पितृलोके महीयते ॥
कुलानि तारयेत्सप्त अतीताऽनागतानि च ॥१४॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये देविकामाहात्म्ये हुंकारकूपमाहात्म्यवर्णनंनामैकोनचत्वारिंशदुत्तरत्रिशततमोऽध्यायः ॥३३९॥

N/A

References : N/A
Last Updated : January 13, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP