संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय ९९

प्रभासक्षेत्र माहात्म्यम् - अध्याय ९९

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
ततो गच्छेन्महादेवि यत्र चक्रधरः स्थितः ॥
दंडपाणिश्च देवेशि यत्रैकस्थानसंस्थितः ॥१॥
चंद्रेशात्पूर्वदिग्भागे । सोमेशादुत्तरेस्थितः) ॥
धनुषां पंचसंस्थाने गंधर्वेशात्समीपतः ॥२॥
उमाया नैर्ऋते भागे ब्रह्मदेवर्षिसंस्थितः ॥
तस्योत्पत्तिं प्रवक्ष्यामि सर्वपातकनाशिनीम्॥३॥
पौंड्रको वासुदेवस्तु वाराणस्यां पुराऽभवत्॥
तेन श्रुतं पुराणं तु पठ्यमानं द्विजातिभिः॥४॥
कल्पादौ द्वापरांते तु क्षत्रियाणां निवेशने ॥
अवतारं महाबाहुवासुदेवः करिष्यति ॥५॥
स तु मूढमतिर्मेने अहं विष्णुरिति प्रिये ॥
चिह्नानि धारयामास चक्रादीनि वरानने ॥६॥
स दूतं प्रेषयामास द्वारकायां महोदरम् ॥
स गत्वा प्राह विष्णुं वै चक्रादीनि परित्यज ॥७॥
इत्याह पौंड्रको राजा नचेद्वधमवा प्स्यसि ॥
ततश्च भगवान्विष्णुः प्राहास्य रुचिरं वचः ॥८॥
वाच्यः स पौंड्रको राजा त्वया हंत वचो मम ॥
गृहीतचक्र एवाहं काशीमागम्य ते पुरीम् ॥९॥
संत्यक्ष्यामि ततश्चक्रं गदां चेमामसंशयम् ॥
तद्ग्राह्यं भवता चक्रमन्यद्वा यत्तवेप्सितम् ॥१०॥
इत्युक्तेऽथ गते दूते संस्मृत्याऽभ्या गतं हरिः ॥
गरुत्मन्तं समारुह्य त्वरितस्तत्पुरं ययौ ॥११॥
मित्रस्नेहात्ततस्तस्य काशिराजः सहानुगः ॥
सर्वसैन्यपरीवारस्ततः पौंड्रमुपाययौ ॥१२॥
ततो बलेन महता काशिराजबलेन च ॥
पौंड्रको वासुदेवोऽसौ केशवाभिमुखो ययौ ॥१३॥
तं ददर्श हरिर्दूराद्दुर्वारे स्यंदने स्थितम् ॥
चक्रहस्तं गदाशार्ङ्गसंयुतं गरुडध्वजम् ॥१४॥
तं दृष्ट्वा भावगंभीरं जहास गरुडध्वजः ॥
उवाच पौंड्रकं मूढमात्मचिह्नोपलक्षितम् ॥१५॥
पौंड्रकोक्तं त्वया यत्तु दूतवक्त्रेण मां प्रति ॥
समुत्सृजेति चिह्नानि तच्च सर्वं त्यजाम्यहम् ॥१६॥
चक्रमेतत्समुत्सृष्टं गदेयं च विस र्जिता ॥
गरुत्मानेष ते गत्वा समारोहतु वै ध्वजम् ॥१७॥
इत्युच्चार्य विमुक्तेन चक्रेणासौ निपातितः ॥
रथश्च गदया भग्नो गजाश्चा श्वाश्च चूर्णिताः ॥१८॥
ततो हाहाकृते लोके काशिनाथो महाबली ॥
युयुधे वासुदेवेन मित्रदुःखेन दुःखितः ॥१९॥
ततः शार्ङ्गविनिर्मुक्तैश्छित्त्वा तस्य शरैः शिरः ॥
काशीपुर्यां स चिक्षेप कुर्वँल्लोकस्य विस्मयम् ॥२०॥
हत्वा तु पौंड्रकं शौरिः काशिराजं च सानु गम् ॥
पुनर्द्वारवतीं प्राप्तो मृगयाया गतो यथा ॥२१॥
ततः काशिपतेः पुत्रः पितुर्दुःखेन दुःखितः ॥
शंकरं तोषयामास स च तस्मै वरं ददौ ॥२२॥
स वव्रे भगवन्कृत्या पितुर्हंतुर्वधाय मे ॥
समुत्तिष्ठतु कृष्णस्य त्वत्प्रसादात्सुरेश्वर ॥२३॥
एवं भविष्यतीत्युक्ते दक्षिणाग्नेस्तु मध्यतः ॥
महाकृत्या समुत्तस्थौ प्रस्थिता द्वारकां प्रति ॥२४॥
ज्वालामालाकरालां तां यादवा भयविह्वलाः ॥
दृष्ट्वा जनार्द्दनं सर्वे शरणार्थमुपागताः ॥२५॥
ततः सुदर्शनं तस्या मुमोच गरुडध्वजः ॥
वधाय सा ततो भग्ना चक्रतेजोऽभिपीडिता ॥२६॥
कृत्यामनुजगामाशु विष्णोश्चक्रं सुदर्शनम् ॥
कृत्या वाराणसीं प्राप्ता तस्याश्चक्रं तु पृष्ठतः ॥२७॥
ततः सा भयसंत्रस्ता शंकरं शरणं गता ॥
सोमनाथं जगन्नाथं नान्यः शक्तो हि रक्षितुम् ॥२८॥
ततश्चक्रं वरैर्बाणैस्ताडयामास शंकरः ॥
तच्च द्वारवतीं प्राप्तं शिवसायकमिश्रितम् ॥२९॥
तद्दृष्ट्वा शिवनामांकैस्ताडितं भगवान्हरिः ॥
चक्रं शरैस्ततः कुद्धो गृहीत्वा च करेण तत् ॥
जगाम तत्र यत्रास्ते सोमेशः कालभैरवः ॥३०
स गत्वा रोष ताम्राक्षश्चक्रोद्यतकरः स्थितः ॥
कृत्यां हंतुं मतिं चक्रे कालभैरवनिर्मिताम् ॥३१॥
दृष्टो देवैस्ततः सर्वैदंडपाणिगणेन च ॥
देवानां प्रेक्षतां तत्र दण्डपाणिर्महागणः ॥
चक्रोद्यतकरं दृष्ट्वा विष्णुं प्राहाब्जलोचनम् ॥३२॥
 ॥दंडपाणिरुवाच॥
मा क्रोधं कुरु देवेश कृत्यां प्रति जगत्प्रभो ॥३३॥
अमोघं युधि ते चक्रं कृत्या चापि च शांकरी ॥
एवं चक्र विनिर्मुक्ते भवेत्कोधो हरे यदि ॥
भविष्यति महद्दुःखं लोकानां संक्षयो हि वा ॥३४॥
न मोक्तव्यमतश्चक्र शृणु भूयो वचश्च नः ॥
अत्र स्थाने नियुक्तोऽहं शंकरेण पुरा हरे ॥३५॥
पापिनां रक्षणार्थं वै विघ्नार्थं दुष्टचेतसाम्॥
तस्मात्त्वं मम सांनिध्ये तिष्ठ चक्रधरो हरे ॥३६॥
अत्र चक्रधरं देवं पूजयिष्यंति मानवाः ॥
धूपमाल्योपहारैश्च नैवेद्यैर्विवि धैरपि ॥३७॥
 ॥विष्णुरुवाच॥
एष एव निवृत्तोहं तव वाक्यांकुशेन वै ॥
अत्र चक्रोद्यतकरः स्थास्ये तव समीपतः ॥३८॥
एवं हि स्थितोदेवस्तत्र चक्रधरः प्रिये ॥
दंडपाणिश्च भगवान्मम रूपी गणेश्वरः ॥३९॥
यस्तौ पूजयते भक्त्या दंडपाणिहरी क्रमात् ॥
स पाप कंचुकैर्मुक्तो गच्छेच्छिवपुरं नरः ॥४०॥
माघे मासि चतुर्द्दश्यां कृष्णाष्टम्यां विशेषतः ॥
गंधधूपोपहारैर्यः पूजयेद्दण्डनायकम् ॥
तस्य क्षेत्रे निवसतो न विघ्नं जायते क्वचित् ॥४१॥
एकादश्यां जिताहारो योऽर्चयेच्चक्रपाणिनम् ॥
स मुक्तः पातकैः सर्वैर्याति विष्णोः सलोकताम् ॥४२॥
इति संक्षेपतः प्रोक्तं माहात्म्यं चक्रपाणिनः ॥
दण्डपाणिगणस्यापि श्रुतं पापौघनाशनम् ॥४३॥
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां सहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये मध्ययात्रायां दण्डपाणिचक्रधरमाहात्म्यवर्णनंनामेकोनशततमोऽध्यायः ॥९९॥छ॥

N/A

References : N/A
Last Updated : January 08, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP