संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय १२१

प्रभासक्षेत्र माहात्म्यम् - अध्याय १२१

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
ततो गच्छेन्महादेवि रामेश्वरमनुत्तमम् ॥
जामदग्न्येन रामेण स्वयं तत्र प्रतिष्ठितम् ॥१॥
गोपीश्वराच्च वायव्ये धनुषां त्रिंशकेऽन्तरे ॥
स्थितं महाप्रभावं हि लिंगं पातकनाशनम् ॥२॥
यदा रामेण देवेशि जमदग्निसुतेन वै ॥
कृतो मातृवधो घोरः पितुराज्ञानुवर्तिना ॥३॥
तदा मनसि संतापं कृत्वा निर्वेदमागतः ॥
ततः प्रसन्नतां यातो जमदग्निर्महातपाः ॥४॥
ददौ वरं ततस्तुष्टो रेणुकायाश्च जीवितम् ॥
एवं यद्यपि सा तत्र जीविता वरवर्णिनी ॥५॥
तथापि सघृणो देवि जामदग्न्यो महाप्रभः ॥
प्रभासं क्षेत्रमासाद्य तपश्चक्रे ततोऽद्भुतम् ॥६॥
प्रतिष्ठाप्य महादेवं शंकरं लोकशंकरम् ॥
दिव्यं वर्षशतं साग्रं ततस्तुष्टो महेश्वरः ॥७॥
ददौ तस्येप्सितं सर्वं स्वयं तत्रैव संस्थितः ॥
ततः कृतार्थतां प्राप्तो जामदग्न्यो महाऋषिः ॥८॥
त्रिःसप्तकृत्वः पृथिवीं जित्वा हत्वा च क्षत्रियान् ॥
कृत्वा पंचनदं तत्र कुरुक्षेत्रे महामनाः ॥९॥
रक्तैः संपूर्णतां नीत्वा क्षत्रियाणां वरानने ॥
आनृण्यं समनु प्राप्तः पितॄणां यो महाबलः ॥१०॥
एवं क्षत्त्रान्तकं कृत्वा दत्त्वा विप्रेषु मेदिनीम् ॥
कृतार्थतामनुप्राप्तस्त्रैलोक्ये ख्यातपौरुषः ॥११॥
तेन तत्स्थापितं लिंगं क्षेत्रे प्राभासिके शुभे ॥
यस्तं पूजयते भक्त्या पापयुक्तोऽपि मानवः ॥
स मुक्तः पातकैः सर्वैर्याति लोकमुमापतेः ॥१२॥
ज्येष्ठकृष्णचतुर्दश्यां जागृयात्तत्र यो नरः ॥
सोऽश्वमेधफलं प्राप्य मोदते दिवि देववत् ॥१३॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये जामदग्न्येश्वरमाहात्म्यवर्णनं- नामैकविंशत्युत्तरशततमोऽध्यायः ॥१२१॥

N/A

References : N/A
Last Updated : January 10, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP