संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय २८०

प्रभासक्षेत्र माहात्म्यम् - अध्याय २८०

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


ईश्वर उवाच॥
ततो गच्छेन्महादेवि च्यवनेश्वरमुत्तमम्॥
तत्रैव संस्थितं लिंगं सर्वपातकनाशनम् ॥१॥
यत्र शर्यातिना दत्ता सुकन्या सा महर्षये ॥
यत्र संस्तंभितं सैन्यमानाहार्त्तमथाकरोत् ॥२॥। (आनाह – जठर आध्मानम्)
एष शर्यातियज्ञस्य देशो देवि प्रकाशते ॥
प्रभासक्षेत्रमध्ये तु साक्षात्पातकनाशनः ॥३॥
साक्षात्तत्राभजत्सोममश्विभ्यां सह कौशिकः ॥
चुकोप भार्गवश्चैव महेन्द्राय महातपाः ॥४॥
संस्तंभयामास च तं वासवं च्यवनः प्रभुः ॥
सुकन्यां चापि भार्यां स राजपुत्रीमवाप्तवान् ॥५॥॥
 ॥देव्युवाच॥
कथं विष्टंभितस्तेन भगवान्पाकशासनः ॥
किमर्थं भार्गवश्चापि कोपं चक्रे महातपाः ॥६॥
नासत्यौ च कथं ब्रह्मन्कृ तवान्सोमपायिनौ ॥
तत्सर्वं च यथावृत्तमाख्यातु भगवान्मम ॥७॥
 ॥ईश्वर उवाच॥
भृगोर्महर्षेः पुत्रोऽभूच्च्यवनो नाम नामतः ॥
स प्रभासं समासाद्य तपस्तेपे महामुनिः ॥८॥
स्थाणुभूतो महातेजा वीरस्थाने च भामिनि ॥
अतिष्ठत्सुचिरं कालमेकदेशे वरानने ॥९॥
स वल्मीकोऽभवत्तत्र लताभिरभिसंवृतः ॥
कालेन महता देवि समाकीर्णः पिपीलकैः ॥१०॥
स तथा संवृतो धीमान्मृत्पिंड इव सर्वतः ॥
तप्यते स्म तपो घोरं वल्मीकेन समावृतः ॥११॥
अथास्य यातकालस्य शर्यातिर्नाम पार्थिवः ॥
तीर्थयात्राप्रसंगेन श्रीसोमेशदिदृक्षया ॥
आजगाम महाक्षेत्रं प्रभासं पापनाशनम् ॥१२॥
तस्य स्त्रीणां सहस्राणि चत्वार्यासन्परिग्रहाः ॥
एकैव तु सुता शुभ्रा सुकन्यानाम नामतः ॥ ॥१३॥
सा सखीभिः परिवृता सर्वाभरणभूषिता ॥
चंक्रम्यमाणा वल्मीकं भार्गवस्य समासदत् ॥१४॥
सा चैव सुदती तत्र पश्यमाना मनोरमान् ॥
वनस्पतीन्विचिन्वंती विजहार सखीवृता ॥१५॥
रूपेण वयसा चैव सुरापानमदेन च ॥
बभंज वनवृक्षाणां शाखाः परम पुष्पिताः ॥१६॥
तां सखीरहितामेकामेकवस्त्रामलंकृताम् ॥
ददर्श भार्गवो धीमांश्चरंतीमिव विद्युतम् ॥१७॥
तां पश्यमानो विजने स रेमे परमद्युतिः ॥
क्षामकण्ठश्च ब्रह्मर्षिस्तपोबलसमन्वितः ॥१८॥
तामभाषत कल्याणीं सा चास्य न शृणोति वै ॥
ततः सुकन्या वल्मीके दृष्ट्वा भार्गवचक्षुषी ॥१९॥
कौतूहलात्कण्टकेन बुद्धिमोहबलात्कृता ॥
किन्नु खल्विदमित्युक्त्वा निर्बिभेदास्य लोचने ॥२०॥
अकुध्यत्स तया विद्धो नेत्रे परममन्युमान् ॥
ततः शर्यातिसैन्यस्य शकृन्मूत्रे समावृणोत् ॥२१॥
ततो रुद्धे शकृन्मूत्रे सैन्यमानाहदुःखितम् ॥
तथागतमभिभेक्ष्य पर्यतप्यत पार्थिवः ॥२२॥
तपोनित्यस्य वृद्धस्य रोषणस्य विशेषतः ॥
केनापकृतमद्येह भार्गवस्य महात्मनः ॥
ज्ञातं वा यदि वाऽज्ञातं तदिदं ब्रूत मा चिरम् ॥२३॥
तत्रोचुः सैनिकाः सर्वे न विद्मोऽपकृतं वयम् ॥
सर्वोपायैर्यथाकामं भवान्समधिगच्छतु ॥२४॥
ततः स पृथिवीपालः साम्ना चोग्रेण च स्वयम् ॥
पर्यपृच्छत्सुहृद्वर्गं प्रत्यजानन्न चैव ते ॥२५॥
आनाहार्त्तं ततो दृष्ट्वा तत्सैन्यं संमुखोदितम्॥
पितरं दुःखितं चापि सुकन्यैवमथाब्रवीत् ॥२६॥
मया तातेह वल्मीके दृष्टं सर्वमभिज्वलत् ॥
उद्द्योतवदविज्ञानात्तन्मया विद्धमन्तिकात् ॥२७॥
एतच्छ्रुत्वा तु शर्याति र्वल्मीकं क्षिप्रमभ्यगात्॥
तत्रापश्यत्तपोवृद्धं वयोवृद्धं च भार्गवम् ॥२८॥
अथावदत्स्वसैन्यार्थं प्रांजलिः स महीपतिः ॥
अज्ञानाद्बालया यत्ते कृतं तत्क्षंतुमर्हसि ॥२९॥
ततोऽब्रवीन्महीपालं च्यवनो भार्गवस्तदा ॥
रूपौदार्यसमायुक्तां लोभमोहसमावृताम् ॥३०॥
तामेव प्रतिगृह्याहं राजन्दुहितरं तव ॥
क्षमिष्यामि महीपाल सत्यमेतद्ब्रवीमि ते ॥३१॥
 ॥ईश्वर उवाच॥
ऋषेर्वचनमाज्ञाय शर्यातिरविचारयन्॥
ददौ दुहितरं तस्मै च्यवनाय महात्मने ॥३२॥
प्रतिगृह्य च तां कन्यां भगवान्प्रससाद ह ॥
प्राप्ते प्रसादे राजा तु ससैन्यः पुरमाव्रजत् ॥३३॥
सुकन्यापि पतिं लब्ध्वा तपस्विनमनिन्दितम् ॥
नित्यं पर्यचरत्प्रीत्या तपसा नियमेन च ॥३४॥
अग्नीनामतिथीनां च शुश्रूषुरनसूयया ॥
समाराधयत क्षिप्रं च्यवनं सा शुभानना ॥३५॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभास क्षेत्रमाहात्म्ये च्यवनेश्वरमाहात्म्यवर्णनंनामाशीत्युत्तरद्विशततमोऽध्यायः ॥२८०॥

N/A

References : N/A
Last Updated : January 13, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP