प्रभासक्षेत्र माहात्म्यम् - अध्याय १२८
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ईश्वर उवाच ॥
ततो गच्छेन्महादेवि सागरादित्यमुत्तमम् ॥
भैरवेशात्पश्चिमतो रुद्रान्मृत्युञ्जयात्तथा ॥१॥
कामेशाद्दक्षिणाग्नेये नातिदूरे व्यवस्थितम् ॥
सर्व रोगप्रशमनं दारिद्र्यौघविघातकम् ॥
प्रतिष्ठितं महादेवि सगरेण महात्मना ॥२॥
षष्टिपुत्रसहस्राणि यः प्रापारातिसूदनः ॥
सूर्यं तत्र समाराध्य सगरः पृथिवीपतिः ॥३॥
य एष सागरो देवि योजनायतविस्तरः ॥
आयतोऽशीतिसाहस्रं योजनानां प्रकीर्तितः ॥४॥
अस्मिन्मन्वन्तरे क्षिप्तः सागरैश्च चतुर्दिशम् ॥
तस्येदं कीर्तितं देवि नाम सागरसंज्ञितम् ॥५॥
यस्याद्यापीह गायन्ति पुराणे प्रथितं यशः ॥
तेनायं स्थापितो देवो भास्करो वारितस्करः ॥६॥
तं दृष्ट्वा न जडो नान्धो न दरिद्रो न दुःखितः ॥
न चैवेष्टवियोगी स्यान्न रोगी नैव पापकृत् ॥७॥
माघे मासि महादेवि सिते पक्षे जितेन्द्रियः ॥
षष्ठ्यामुपोषितो भूत्वा रात्रौ तस्याग्रतः स्वपेत् ॥८॥
विबुद्धस्त्वथ सप्तम्यां भक्त्या भानुं समर्चयेत् ॥
ब्राह्मणान्भोजयेद्भक्त्या वित्तशाठ्यं विवर्जयेत् ॥९॥
सुतप्तेनेह तपसा यज्ञैर्वा बहुदक्षिणैः ॥
तां गतिं न नरा यान्ति यां गताः सूर्यमाश्रिताः ॥१०॥
भक्त्या तु पुरुषैः पूजा कृता दूर्वांकुरैरपि ॥
भानुर्ददाति हि फलं सर्वयज्ञैः सुदुर्लभम् ॥११॥
तस्मात्सर्वप्रयत्नेन सूर्यमेवाभिपूजयेत् ॥
जनकादयो यथा सिद्धिं गता भानुं प्रपूज्य च ॥१२॥
सर्वात्मा सर्वलोकेशो देवदेवः प्रजापतिः ॥
सूर्य एव त्रिलोकस्य मूलं परमदैवतम् ॥१३॥
वसन्ते कपिलः सूर्यो ग्रीष्मे काञ्चनसप्रभः ॥
श्वेतवर्णश्च वर्षासु पांडुः शरदि भास्करः ॥१४॥
हेमन्ते ताम्रवर्णस्तु शिशिरे लोहितो रविः ॥
एवं वर्णविशेषेण ध्यायेत्सूर्यं यथाक्रमम् ॥१५॥
पूजयित्वा विधानेन यतात्मा संयतेन्द्रियः ॥
पठेन्नामसहस्रं तु सर्वपातकनाशनम् ॥ ॥१६॥
॥देव्युवाच॥
नाम्नां सहस्रं मे ब्रूहि प्रसादाञ्छंकर प्रभो ॥
तुल्यं नामसहस्रस्य किमप्यन्यत्प्रकीर्तय ॥१७॥
॥ईश्वर उवाच॥
अलं नामसहस्रेण पठस्वैवं शुभं स्तवम् ॥
यानि गुह्यानि नामानि पवित्राणि शुभानि च ॥
तानि ते कीर्तयिष्यामि प्रयत्नादवधारय ॥१८॥
विकर्तनो विवस्वांश्च मार्तण्डो भास्करो रविः ॥
लोकप्रकाशकः श्रीमाँल्लोकचक्षुर्ग्रहेश्वरः ॥१९॥
लोकसाक्षी त्रिलोकेशः कर्त्ता हर्त्ता तमिस्रहा ॥
तपनस्तापनश्चैव शुचिः सप्ताश्ववाहनः ॥२०॥
गभस्तिहस्तो ब्रह्मा च सर्वदेवनमस्कृतः ॥
एकविंशतिरित्येष स्तव इष्टो महात्मनः ॥२१॥
शरीरारोग्यदश्चैव धनवृद्धियशस्करः ॥
स्तवराज इति ख्यातस्त्रिषु लोकेषु विश्रुतः ॥ ॥२२॥
यश्चानेन महादेवि द्वे संध्येऽस्तमनोदये ॥
स्तौत्यर्कं प्रयतो भूत्वा सर्वपापैः प्रमुच्यते ॥
सर्वकामसमृद्धात्मा सूर्यलोकं स गच्छति ॥२३॥
इत्येवं कथितं देवि माहात्म्यं सागरार्कजम् ॥
श्रुतं दुःखौघशमनं महापातकनाशनम् ॥२४॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये सागरादित्यमाहात्म्यवर्णनंनामाष्टाविंशत्युत्तरशततमोऽध्यायः ॥ ॥१२८॥
N/A
References : N/A
Last Updated : January 10, 2025

TOP