संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय २१५

प्रभासक्षेत्र माहात्म्यम् - अध्याय २१५

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
ततो गच्छेन्महादेवि कुमारेश्वरमुत्तमम् ॥
मार्कण्डेश्वरतो देवि दक्षिणे नातिदूरतः ॥
धनुर्विंशतिभिस्तत्र स्थितं स्वामिप्रतिष्ठितम् ॥१॥
ततः कृत्वा तपो घोरं कार्त्तिकेयेन भाभिनि ॥
परदारापहारोत्थपापानां नाशहेतवे ॥२॥
लिंगं स्थापितवांस्तत्र स मुक्तः किल्विषात्ततः ॥
वैराग्याद्यौवनं त्यक्त्वा कौमारं पुनराददे ॥३॥
पितॄन्हत्वा सुमाली च तमाराधितवान्पुरा ॥
सोऽपि मुक्तोऽभवद्देवि पापात्पितृवधोद्भवात् ॥४॥
कुमारेश्वरनामैतत्पूजितं वै सुरासुरैः ॥
तस्याग्रतः कुमारस्य कूपस्तिष्ठति भामिनि ॥५॥
तत्र स्नात्वा पूजयेद्यः शूलिनं स्वामिपूजितम् ॥
स मुक्तः पातकैः सर्वैर्गच्छेत्स्वामिपुरं महत् ॥६॥
शातकौंभमयं यस्तु ताम्रचूडं द्विजातये ॥
दद्यात्स्वामिनमुद्दिश्य स तु यात्राफलं लभेत् ॥७॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभास क्षेत्रमाहात्म्ये कुमारेश्वरमाहात्म्यवर्णनंनाम पञ्चदशोत्तरद्विशततमोऽध्यायः ॥२१५॥॥

N/A

References : N/A
Last Updated : January 12, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP