प्रभासक्षेत्र माहात्म्यम् - अध्याय ४०
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
ईश्वर उवाच॥
ततो गच्छेन्महादेवि श्वेतकेतुप्रतिष्ठितम्॥
लिंगं महाप्रभावं तु भीमेनाराधितं पुरा ॥१॥
केदारेश्वरसांनिध्ये नातिदूरे व्यवस्थितम्॥
पूजयते त्तद्विधानेन क्षीरस्नानादिभिः क्रमात् ॥
यात्राफलमभिप्रेप्सुः प्रेत्य स्वर्गफलाय वै ॥२॥
॥देव्युवाच॥
श्वेतकेतोस्तु यद्देव लिंगं प्रोक्तं त्वया मम ॥
तस्य जातं कथं देव नाम भीमेश्वरेति च ॥३॥
कथं विनिर्मितं पूर्वं तस्मिन्दृष्टे तु किं फलम् ॥४॥
॥ईश्वर उवाच॥
आसीत्त्रेतायुगे पूर्वं राजा स्वायंभुवेंतरे ॥
श्वेतकेतुरिति ख्यातो राजर्षिः सुमहातपाः ॥५॥
स प्रभासं समागत्य प्रतिष्ठाप्य महे श्वरम् ॥
तपस्तेपे सुविपुलं सागरस्य तटे शुभे ॥६॥
पंचाग्निसाधको ग्रीष्मे वर्षास्वाकाशगस्तथा ॥
हेमंते जलमध्यस्थो नव वर्षाणि पंच च ॥७॥
ततश्चतुर्द्दशे देवि तपसा नियमेन च ॥
तुष्टेनोक्तो मया देवि वरं वरय सुव्रत ॥८॥
श्वेतकेतुरथोवाच भक्तिं देहि सुनिश्चलाम् ॥
स्थानेऽस्मिन्स्थीयतां देव यदि तुष्टोऽसि मे प्रभो ॥९॥
एवमस्त्वित्यथोक्त्वाऽहं तस्यांतर्द्धानमागतः ॥
ततः कालांतरेऽतीते श्वेतकेतुर्महाप्रभः ॥१०॥
समाराध्य त्विदं लिंगं प्राप्तः स्थानं महोदयम् ॥
ततो जातं नाम तस्य श्वेतकेत्वीश्वरं श्रुतम् ॥११॥
अग्नितीर्थे महापुण्ये सर्वपातकनाशने ॥
ततः कलियुगे प्राप्ते भ्रातृभिश्च समन्वितः ॥१२॥
तीर्थयात्राप्रसंगेन यदा प्रभासमागतः ॥
भीमसेनो महाबाहुर्वायुपुत्रो ममांशजः ॥१३॥
तल्लिंगं पूजयामास कृत्वा जागेश्वरं निजम् ॥
मत्वा तीर्थं महापुण्यं सागरस्य समीपतः ॥१४॥
तदा प्रभृति भीमेशं पुनर्नामाऽभवच्छुभम् ॥
दृष्टमात्रेण तेनैव सकृल्लिंगेन भामिनि ॥१५॥
अन्यजन्मकृतान्येव पापानि सुबहून्यपि ॥
नाशमायांति सर्वाणि तथैवामुष्मिकाणि तु ॥१६॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये भीमेश्वरमाहात्म्यवर्णनंनाम चत्वारिंशोऽध्यायः ॥४०॥
N/A
References : N/A
Last Updated : January 07, 2025

TOP