संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय १८१

प्रभासक्षेत्र माहात्म्यम् - अध्याय १८१

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


ततो मातृगणान्पश्येद्वसुनन्दादिनामतः ॥
अर्क स्थलसमीपस्थान्दक्षिणे नातिदूरतः ॥१॥
आश्वयुक्छुक्लपक्षे तु नवम्यां नियतात्मवान् ॥
यस्ताः पूजयते मातॄर्विधिना भावितात्मवान् ॥२॥
स समृद्धिमवाप्नोति दुरापामकृतात्मभिः ॥
तत्रैव संस्थितं पश्येच्छ्रीमुखं विवरप्रियम् ॥३॥
तस्मिन्नेव दिने पूज्यं सिद्धिकामैर्नरैः सदा ॥
एतत्पूर्वं मयाख्यातं तव विस्तरतः प्रिये ॥४॥
तस्मिन्नेव दिने पूज्यं तीर्थयात्राप्रसंगतः ॥५॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये वसुनन्दामातृगणश्रीमुखविवर माहात्म्यवर्णनंनाम द्व्यशीत्युत्तरशततमोऽध्यायः ॥ ॥१८२॥

N/A

References : N/A
Last Updated : January 12, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP