संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय २३४

प्रभासक्षेत्र माहात्म्यम् - अध्याय २३४

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
ततो गच्छेन्महादेवि तीर्थं त्रैलोक्यविश्रुतम् ॥
दशाश्वमेधिकंनाम महापातकनाशनम् ॥१॥
वाजिमेधः पुरा चेष्टं दशभिस्तत्र भामिनि ॥
भरतेन समागत्य मत्वा क्षेत्रमनुत्तमम् ॥२॥
तत्र तृप्तः सहस्राक्षः सोमनाथेन भामिनि ॥
कृपणाः खानपानैश्च दक्षिणाभिर्द्विजातयः ॥३॥
अथोचुस्त्रिदशाः सर्वे सुप्रीता भरतं नृपम् ॥
तुष्टास्तव महाबाहो यज्ञैः संतर्पिता वयम् ॥
वरं वृणीष्व राजेंद्र यत्ते मनसि वर्त्तते ॥४. ॥
 ॥राजोवाच॥
अत्रागत्य नरो भक्त्या यः स्नानं कुरुते नरः ॥
दशानामश्वमेधानां स प्राप्नोतु फलं शुभम् ॥. ५॥
 ॥देवा ऊचुः॥
दशानामश्वमेधानां श्रद्धया फलमाप्स्यति ॥
दशाश्वमेधिकंनाम तीर्थमेतन्महीतले ॥
ख्यातिं यास्यति राजेंद्र नात्र कार्या विचारणा ॥६॥
 ॥ईश्वर उवाच॥
ततः प्रभृति तत्तीर्थं प्रख्यातं धरणीतले ॥
दशाश्वमेधिकमिति सर्वपापप्रणाशनम् ॥७॥
ऐंद्रवारुणमाश्रित्य गोमुखादाऽऽश्वमेधिकम् ॥
अत्रांतरे महादेवि शिवक्षेत्रं विदुर्बुधाः ॥८॥
सर्वपापहरं दिव्यं स्वर्गसोपानसंनिभम् ॥
सपादकोटितीर्थानां स्थानं तत्परिकीर्तितम ॥९॥
प्राणत्यागे कृते तत्र शिवलोके च मोदते ॥
तिर्यग्योनिगताः पापा कीटपक्षिमृगादयः ॥१०॥
तेऽपि यांति परं स्थानं यत्र देवो महेश्वरः ॥
तिलोदकप्रदानेन मातृकाः पैतृकास्तथा ॥११॥
पितरस्तस्य तृप्यंति यावदाभूतसंप्लवम् ॥
तत्रेष्टा ब्रह्मणा पूर्वमसंख्याता मखोत्तमाः ॥१२॥
शक्रश्च देवराजत्वे तत्रेष्ट्वा समवाप्तवान् ॥
कार्त्तवीर्येण तत्रैव कृतं यज्ञशतं पुरा ॥१३॥
एवं तत्प्रवरं स्थानं क्षेत्रगर्भांतिकं प्रिये ॥
मृतानां तत्र जंतूनामपुनर्भवदायकम् ॥१४॥
वृषोत्सर्गं तु यस्तत्र कुर्याद्वै भावितात्मवान् ॥
यावंति वृषरोमाणि तावत्स्वर्गे महीयते ॥१५॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्र माहात्म्ये दशाश्वमेधमाहत्म्यवर्णनंनाम चतुस्त्रिंशदुत्तरद्विशततमोऽध्यायः ॥२३४॥

N/A

References : N/A
Last Updated : January 12, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP