संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय ८३

प्रभासक्षेत्र माहात्म्यम् - अध्याय ८३

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
ततो गच्छेन्महादेवि तस्य पूर्वेण संस्थिताम् ॥
योगेश्वरीं महादेवीं योगसिद्धिफलप्रदाम् ॥१॥
तदुत्पत्तिं प्रवक्ष्यामि शृणु श्रद्धासमन्विता ॥
पुरा दानवशार्दूलो महिषाख्यो महाबलः ॥२॥
बभूव प्रवरो देवि सर्वदेवभयंकरः ॥
कामरूपी स लोकांस्त्रीन्वशीकृत्वाऽभवत्सुखी ॥३॥
कस्मिंश्चिदथ काले तु ब्रह्मणा लोककारिणा ॥
सृष्टा मनोहरा कन्या रूपेणाप्रतिमा दिवि ॥४॥
अतपत्सा तपो घोरं कन्या रूपवती सती ॥
नारदेन ततो दृष्टा सा कदाचिद्वरानने ॥५॥
ततः स सहसा देवि विस्मयं परमं गतः ॥
अहो रूपमहो धैर्यमहो कान्तिरहो वयः ॥६॥
इत्येवं चिन्तयंस्तत्र नारीं वचनमब्रवीत् ॥
कुरुष्वात्मप्रदानं मे न मे दारपरिग्रहः ॥
तवाहं दर्शनाद्देवि कामवाणेन पीडितः ॥७॥
साऽब्रवीन्न हि मे कार्यं कामधर्मेण सत्तम॥
कौमारं व्रतमासाद्य साधयिष्ये यथेप्सितम् ]। ८॥
न च मन्युस्त्वया कार्यो ह्यस्मिन्नर्थे कथंचन ॥
तस्यास्तद्वचनं श्रुत्वा स मुनिर्नारदः प्रिये ॥९॥
समुद्रान्तेऽगमद्दिव्यां पुरीं महिषपालिताम् ॥
अर्चितो हि मुनिस्तेन महिषेण महात्मना ॥१०॥
पृष्ट्वा ह्यनामयं देवि दत्त्वा चार्घ्यमनुत्तमम् ॥
सोऽब्रवीत्प्राञ्जलिर्भूत्वा किमागमनकारणम् ॥
ब्रूहि यत्ते व्यवसितं सर्वं कर्त्तास्मि नारद ॥११॥
अथोवाच मुनिस्तत्र महिषं दानवेश्वरम्॥
कन्यारत्नं समुत्पन्नं जंबूद्वीपे महासुर ॥१२॥
स्वर्गे मर्त्ये च पाताले न दृष्टं न च मे श्रुतम् ॥
तादृग्रूपमहं येन कामबाणवशीकृतः ॥१३॥
स श्रुत्वा वचनं तस्य कामस्योत्पादनं परम्॥
जगाम यत्र सा साध्वी क्षेत्रे प्राभासिके स्थिता ॥१४॥
तामेव प्रार्थयामास बलेन महता वृतः ॥
भार्या भव त्वं मे भीरु भुंक्ष्व भोगान्मनोरमान्॥
एतत्तपो महाभागे विरुद्धं यौवनस्य ते ॥१५॥
तस्य तद्वचनं श्रुत्वा जहास वरवर्णिनी ॥
तस्या हसंत्या देवेशि शतशोऽथ सहस्रशः ॥१६॥
निश्वासात्सहसा नार्यः शस्त्रहस्ता भयानकाः ॥
ताभिर्विध्वंसितं सैन्यं महिषस्य दुरात्मनः ॥१७॥
तस्मिन्निपात्यमाने तु सैन्ये दानवसत्तमः ॥
क्रोधं कृत्वा ततः शीघ्रं तामेवाभिमुखो ययौ ॥१८॥
विधुन्वन्स हि ते तीक्ष्णशृंगेऽभीक्ष्णं भयानके ॥।
तया सार्धं च सुमहत्कृत्वा युद्धं महासुरः ॥१९॥
शृंगाभ्यां जगृहे देवीं सा तस्योपरि संस्थिता ॥
पद्भ्यामाक्रम्य शूलेन निहतो दैत्यपुंगवः ॥२०॥
छिन्ने शिरसि खङ्गेन तद्रूपो निःसृतः पुमान् ॥
रौद्रोऽपि स गतः स्वर्गं दैत्यो देव्यस्त्रपातितः ॥२१॥
ततो देवगणाः सर्वे महिषं वीक्ष्य निर्जितम् ॥।
महेंद्राद्याः स्तुतिं चक्रुर्देव्यास्तुष्टेन चेतसा ॥२२॥
 ॥देवा ऊचुः॥
नमो देवि महाभागे गम्भीरे भीमदर्शने॥
नयस्थिते सुसिद्धांते त्रिनेत्रे विश्वतोमुखि ॥२३॥
विद्याविद्ये जये जाप्ये महिषासुरमर्दिनि ॥
सर्वगे सर्वविद्येशे देवि विश्वस्वरूपिणि ॥२४॥
वीतशोके ध्रुवे देवि पद्मपत्रायतेक्षणे ॥
शुद्धसत्त्वे व्रतस्थे च चण्डरूपे विभावरि ॥२५॥
ऋद्धिसिद्धिप्रदे देवि कालनृत्ये धृतिप्रिये ॥
शांकरि ब्राह्मणि ब्राह्मि सर्वदेवनमस्कृते ॥२६॥
घंटाहस्ते शूल हस्ते महामहिषमर्दिनि ॥
उग्ररूपे विरूपाक्षि महामायेऽमृते शिवे ॥२७॥
सर्वगे सर्वदे देवि सर्वसत्त्वमयोद्भवे ॥
विद्यापुराणशल्यानां जननि भूतधारिणि ॥२८॥
सर्वदेवरहस्यानां सर्वसत्त्ववतां शुभे ॥
त्वमेव शरणं देवि विद्याऽविद्ये श्रियेऽश्रिये ॥२९॥
एवं स्तुता सुरैर्देवि प्रणम्य ऋषिभिस्तथा ॥
उवाच हसती वाक्यं वृणुध्वं वरमुत्तमम् ॥३०॥
 ॥देवा ऊचुः ॥
स्तवेनानेन ये देवि स्तुवन्त्यत्र नरोत्तमाः ॥
ते संतु कामैः संपूर्णा वरवर्षा निरंतरम् ॥३१॥
अस्मिन्क्षेत्रे त्वया वासो नित्यं कार्यः शुचिस्मिते ॥३२॥
एवमस्त्विति सा देवी देवानुक्त्वा वरानने ॥
विसृज्य ऋषिसंघांश्च तत्रैव निरताऽभवत् ॥३३॥
आश्वयुक्छुक्लपक्षस्य नवम्यां यो वरानने ॥
उपवासपरो भूत्वा तां प्रपश्यति भक्तितः ॥
तस्य पापं क्षयं याति तमः सूर्योदये यथा ॥३४॥
य एतत्पठति स्तोत्रं प्रातरुत्थाय मानवः ॥
न भीः संपद्यते तस्य यावज्जीवं नरस्य वै ॥३५॥
आश्वयुक्छुक्लपक्षे या अष्टमी मूलसंयुता ॥
सा महानामिका प्राणा येषां तस्यां गताः शुभे ॥३६॥
तेषां स्वर्गे ध्रुवं वासो वीरास्तेऽप्सरसां प्रियाः ॥३७॥
मन्वन्तरेषु सर्वेषु कल्पादिषु सुरेश्वरि ॥
एष एव क्रमः प्रोक्तो विशेषं शृणु सांप्रतम् ॥३८॥
आश्वयुक्छुक्लपक्षे या पंचमी पापनाशिनी ॥
तस्यां संपूजयेद्रात्रौ खड्गमंत्रैर्विभूषितम् ॥३९॥
मंडपं कारयेत्तत्र नवसप्तकरं तथा ॥
प्रागुदक्प्रवणे देशे पताकाभिरलंकृतम् ॥
योगेश्वर्याः संनिधाने विधिना कारयेद्द्विजः॥४०॥।
आग्नेय्यां कारयेत्कुण्डं हस्तमात्रं सुशोभनम्॥
मेखलात्रयसंयुक्तं योन्याऽश्वत्थदलाभया॥४१॥
शास्त्रोक्तं मन्त्रसंयुक्तं होतव्यं पायसं ततः॥
ततः खड्गं तु संस्नाप्य पंचामृतरसेन वै॥
पूजयेद्विविधैः पुष्पैर्मंत्रपूर्वं द्विजोत्तमैः॥४२॥
अभीर्विशसनं खड्गः प्राणिभूतो दुरासदः ॥
अगम्यो विजयश्चैव धर्माधारस्तथैव च ॥
इत्यष्टौ तव नामानि स्वयमुक्तानि वेधसा ॥४३॥
नक्षत्रं कृत्तिका तुभ्यं गुरुर्देवो महेश्वरः ॥
हिरण्यं च शरीरं ते धाता देवो जनार्दनः ॥
पिता पितामहो देव स्वेन पालय सर्वदा ॥४४॥
 ॥इति खड्गमन्त्रः॥
एवं संपूज्य विधिना तं खङ्गं ब्राह्मणोत्तमैः ॥
भ्रामयेन्नगरे रात्रौ नान्दीघोषपुरःसरम् ॥४५॥
सर्वसैन्येन संयुक्तस्तत्र ब्राह्मणपुंगवैः ॥
एवं कृत्वा विधानं तु पुनर्योगेश्वरीं नयेत् ॥
उच्चार्य मन्त्रमेवं वै खङ्गं तस्यै समर्पयेत् ॥४६॥
अञ्जनेन समालेख्य चन्दनेन विलेपितम् ॥
बिल्वपत्रकृतां मालां तस्यै देव्यै निवेदयेत् ॥४७॥
दुर्गे दुर्गार्तिहे देवि सर्व दुर्गतिनाशिनि ॥
त्राहि मां सर्वदुर्गेषु दुर्गेऽहं शरणं गतः ॥४८॥
दत्त्वैवमर्घ्यं देवेशि तत्र खङ्गं च जागृयात् ॥
नित्यं संपूज्य विधिना अष्टम्यां यावदेव हि ॥४९॥
तद्रात्रौ जागरं कृत्वा प्रभाते ह्यरुणोदये ॥
पातयेन्महिषान्मेषानग्रतो गतकंधरान् ॥५०॥
शतमर्धशतं वापि तदर्धार्धं यथेच्छया ॥
सुरासवभृतैः कुंभैस्तर्पयेत्परमेश्वरीम् ॥५१॥
कापालिकेभ्यस्तद्देयं दासीदासजने तथा ॥
ततोऽपराह्नसमये नवम्यां स्यन्दने स्थिताम् ॥५२॥
योगेशीं भ्रामयेद्राष्ट्रे स्वयं राजा स्वसैन्यवान् ॥
नदद्भिः शंखपटहैः पठद्भिर्बटुचारणैः ॥५३॥
भूतेभ्यश्च बलिं दद्यान्मंत्रेणानेन भामिनि ॥
सरक्तं सजलं सान्नं गन्धपुष्पाक्षतैर्युतम् ॥५४॥
त्रीन्वाराँस्तु त्रिशूलेन दिग्विदिक्षु क्षिपेद्बलिम् ॥
बलिं गृह्णन्त्विमे देवा आदित्या वसवस्तथा ॥५५॥
मरुतोऽथाश्विनौ रुद्राः सुपर्णाः पन्नगा ग्रहाः ॥
सौम्या भवंतु तृप्ताश्च भूताः प्रेताः सुखावहाः ॥५६॥
य एवं कुर्वते यात्रां ब्राह्मणाः क्षेत्रवासिनः ॥
न तेषां शत्रवो नाग्निर्न चौरा न विनायकाः ॥
विघ्नं कुर्वंति देवेशि योगेश्वर्याः प्रसादतः ॥५७॥
सुखिनो भोगभोक्तारः सर्वातंकविवर्जिताः ॥
भवन्ति पुरुषा भक्ता योगेश्वर्या निरंतरम् ॥५८॥
इत्येष ते समाख्यातो योगेश्वर्या महोत्सवः ॥
पठतां शृण्वतां चैव सर्वाशुभविनाशनः ॥५९॥
शूलाग्रभिन्नमहिषासुरपृष्ठपीठामुत्खातखड्ग रुचिरांगदबाहुदंडाम् ॥
अभ्यर्च्य पंचवदनानुगतं नवम्यां दुर्गां सुदुर्गगहनानि तरंति मर्त्याः ॥६०॥
इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये योगेश्वरीमाहात्म्यवर्णनंनाम त्र्यशीतितमोऽध्यायः ॥८३॥

N/A

References : N/A
Last Updated : January 08, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP