संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय २२०

प्रभासक्षेत्र माहात्म्यम् - अध्याय २२०

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
ततो गच्छेन्महादेवि देवं त्रैलोक्यपूजितम् ॥
वृषध्वजेश्वरं नाम स्थितं दक्षिणतस्तथा ॥१॥
यत्तदक्षरमव्यक्तं परं यस्मान्न विद्यते ॥
योगगम्यमनाद्यंतं वृषभध्वज संमितम् ॥२॥
सर्वाश्चर्यमयं देवि बुद्धिग्राह्यं निरामयम्॥
विश्वतः पाणिपादं च विश्वतोऽक्षिशिरोमुखम् ॥३॥
तं च देवं चिरं स्थाणुं वृषभध्वजसंज्ञितम् ॥
पृथुर्मरुच्च भरतः शशबिन्दुर्गयः शिबिः ॥४॥
रामोंऽबरीषो मांधाता दिलीपोऽथ भगीरथः ॥
सुहोत्रो रंतिदेवश्च ययातिः सगरस्तथा ॥५॥
षोडशैते नृपा धन्याः प्रभासं क्षेत्रमाश्रिताः ॥
वृषध्वजेशमाराध्य यज्ञैरिष्ट्वा दिवं गताः ॥६॥
सत्यं वच्मि हितं वच्मि सारं वच्मि पुनःपुनः ॥
असारे दग्धसंसारे सारं तत्र शिवार्चनम् ॥७॥
पुनर्जन्म पुनर्मृत्युः पुनः क्लेशः पुनर्जरा ॥
अहरहर्घटीन्यायो न कदाचिदपीदृशः ॥८॥
तदा श्वेतस्य संसारग्रन्थेरत्यन्तदुर्भिदः ॥
परं निर्मूलविच्छेदि क्रियतां तद्भवार्चनम् ॥९॥
तस्य चिन्तामणिर्गेहे तस्य कल्पद्रुमः कुले ॥
कुबेरः किंकरस्तस्य भक्तिर्यस्य शिवे स्थिता ॥१०॥
सेयं लक्ष्मीः पुरा पुंसां सेयं भक्तिः समीहिता ॥
सेयं श्रेयस्करी मूर्तिर्भक्तिर्या वृषभध्वजे ॥११॥
पुष्पैः पंचभिरप्यत्र पूजयित्वा महेश्वरम् ॥
दशानामश्वमेधानां फलं प्राप्नोति मानवः ॥१२॥
वृषभस्तत्र दातव्यो वृषभध्वज संनिधौ ॥
सर्वपातकनाशार्थं सम्यग्यात्राफलेप्सुभिः ॥१३॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये वृषभध्वजेश्वरमाहात्म्यवर्णनंनाम विंशत्युत्तरद्विशततमोऽध्यायः ॥२२०॥

N/A

References : N/A
Last Updated : January 12, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP