संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय ८९

प्रभासक्षेत्र माहात्म्यम् - अध्याय ८९

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
ततो गच्छेद्वरारोहे कपालीश्वरमुत्तमम् ॥
रुद्रं तृतीयं पापघ्नं नीलरुद्रस्यपूर्वतः ॥१॥
बुधेश्वरात्पश्चिमतो धनुषां सप्तके स्थितम् ॥
छिन्नं मया पुरा देवि ब्रह्मणः पंचमं शिरः ॥२॥
तत्कपालं करे लग्नं प्रभासक्षेत्रमागतः ॥
ततो वर्षसहस्रं तु संस्थितः क्षेत्रमध्यतः ॥३॥
कपालधारी दिग्वासाः कपाली तेन च स्मृतः ॥
तन्मया पूजितं लिंगं वर्षाणामयुतं प्रिये ॥४॥
कपालिरूपमास्थाय कपालीशस्ततः स्मृतः ॥
सर्वपापहरो नृणां दर्शनात्स्पर्शनादपि ॥५॥
मया तत्र नियुक्ता वै रक्षार्थं शूलपाणयः ॥
गणाः सहस्रशो देवि पापिनां दुष्टचेतसाम् ॥६॥
तस्मात्सर्वप्रयत्नेन सम्यक्छ्रद्धासमन्वितः ॥
पूजयेत्तं महादेवं कपालिनमनामयम् ॥७॥
हिरण्यं तत्र दातव्यं ब्राह्मणे वेदपारगे ॥
पूजयित्वा विधानेन सम्यक्तत्पुरुषाणुना ॥८॥
जन्मप्रभृति यत्पापं प्राणिभिः समुपार्जितम् ॥
षडशीतिमुखे दृष्ट्वा तल्लिंगं तु व्यपोहति ॥९॥
इति संक्षेपतः प्रोक्तं माहात्म्यं पापनाशनम् ॥
कपालिरुद्रदेवस्य तृतीयस्य वरानने ॥१०॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य एकादशरुद्रमाहात्म्ये कपा लीश्वरमाहात्म्यवर्णनंनामैकोननवतितमोऽध्यायः ॥८९॥

N/A

References : N/A
Last Updated : January 08, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP