संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय १७२

प्रभासक्षेत्र माहात्म्यम् - अध्याय १७२

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
ततो गच्छेन्महा देवि लिंगं तद्भरतेश्वरम् ॥
तस्मादुत्तरकोणस्थं नातिदूरं व्यवस्थितम् ॥१॥
भरतोनाम राजाऽभूदाग्नीध्रः प्रथितः क्षितौ ॥
यस्येदं भारतं वर्षं नाम्ना लोकेषु गीयते ॥२॥
स च चक्रे तपो घोरं क्षेत्रेऽस्मिन्पार्वति प्रिये ॥
दिव्यं वर्षसहस्रं तु प्रतिष्ठाप्य महेश्वरम् ॥३॥
पुत्रकामो नरश्रेष्ठः पूजयामास शंकरम् ॥
ततस्तुष्टः स भगवान्वरं दातुं समुत्सुकः ॥४॥
अष्टौ पुत्रान्ददौ तस्मै कन्यां चैकां यशस्विनीम् ॥
स तु प्राप्याभिलषितं कृतकृत्यो नराधिपः ॥५॥
भारतं नवधा कृत्वा पुत्रेभ्यः प्रददौ पृथक् ॥
तेषां नामांकितान्येव ततो द्वीपानि जज्ञिरे ॥६॥
इन्द्रद्वीपः कसेरुश्च ताम्रवर्णो गभस्तिमान् ॥
नागद्वीपस्तथा सौम्यो गान्धर्वस्त्वथ चारुणः ॥७॥
अयं तु नवमो द्वीपः कुमार्या संज्ञितः प्रिये ॥
अष्टौ द्वीपाः समुद्रेण प्लाविताश्च तथापरे ॥८॥
ग्रामादिदेशसंयुक्ताः स्थिताः सागरमध्यगाः ॥
एक एव स्थितस्तेषां कुमार्याख्यस्तु सांप्रतम् ॥९॥
बिंदुसरः प्रभृत्येव सागराद्दक्षिणोत्तरम् ॥
योजनानां सहस्रं तु एकं विस्तीर्ण एव तु ॥१०॥
योजनानां सहस्राणि नव दैर्घ्यं प्रकीर्तितम् ॥
तस्यैतज्जृम्भितं देवि भरतस्य महात्मनः ॥११॥
षट्पञ्चाशदश्वमेधान्गंगामनु चकार यः॥
यस्त्रिंशद्यमुनाप्रान्ते भरतो लोकपूजितः ॥१२॥
स चेश्वरप्रसादेन मोदते दिवि देववत् ॥१३॥
यस्तत्प्रतिष्ठितं लिंगं भारतं पूजयिष्यति ॥
स सर्वयज्ञदानानां फलं प्रापयिता धुवम् ॥१४॥
कार्त्तिक्यां कृत्तिका योगे यस्तं पश्यति मानवः ॥
न स पश्यति स्वप्नेपि नरकं घोरदारुणम् ॥१५॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये भरतेश्वरमाहात्म्यवर्णनंनाम द्विसप्तत्युत्तरशततमोऽध्यायः ॥१७२॥

N/A

References : N/A
Last Updated : January 12, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP