संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय १५१

प्रभासक्षेत्र माहात्म्यम् - अध्याय १५१

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
तस्यैव दक्षिणे भागे तृतीयो भैरवः स्थित ॥
ब्रह्मकुण्डसमीपे तु सावित्र्या संप्रतिष्ठितः ॥१॥
आराध्य तत्र देवेशं देवानां प्रपितामहम् ॥
वायुभक्षा निराहारा तोषयामास शंकरम् ॥२॥
तुष्टः प्राहेश्वरो देवि शंकरस्तां वराननाम् ॥३॥
योऽस्मिन्कुंडे नरः स्नात्वा मल्लिंगं पूजयिष्यति ॥
पौर्णमास्यां विधानेन गन्धपुष्पादिभिः क्रमात् ॥४॥
दास्यं तस्य वरा निष्टान्मनसाऽभीसिताञ्छुभान् ॥५॥
महापातकयुक्तोऽपि मुक्तो भवति पातकैः ॥
सर्वकामसमृद्धात्मा स भूयाद्वृषभध्वजः ॥६॥
इत्येवमुक्त्वा देवेशि ततोऽन्तर्धानमागतः ॥
सावित्री ब्रह्मलोके तु गता संस्थाप्य शंकरम् ॥७॥
इति संक्षेपतः प्रोक्तं सावित्रीशमहोदयम् ॥
शृणुयाद्यस्तु मतिमान्स मुक्तः पातकैर्भवेत् ॥८॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये ब्रह्मकुण्डमाहात्म्ये सावित्रीश्वरभैरवमाहात्म्य- वर्णनंनामैकपंचाशदुत्तरशततमोऽध्यायः ॥१५१॥

N/A

References : N/A
Last Updated : January 11, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP