संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय ११६

प्रभासक्षेत्र माहात्म्यम् - अध्याय ११६

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
ततो गच्छेन्महादेवि देवीं सौभाग्यकारिणीम् ॥
कुण्डेश्वरीति विख्यातां पुष्कराद्वायुगोचरे ॥१॥
धनुषां त्रिंशता देवि भूतनाथाच्च नैर्ऋते ॥
संस्थिता पापदमनी दारिद्र्यौघविनाशिनी ॥२॥
तस्या नैर्ऋतदिग्भागे धनुःपञ्चदशे स्थितम् ॥
शंखोदकंनाम कुण्डं सर्वपातकनाशनम् ॥३॥
तत्र स्नात्वा तु ये मर्त्या नारी वा शुभवारिणि ॥
पूजयेत्तां महादेवि शंखावर्तेति विश्रुताम् ॥४॥
कलौ कुण्डेश्वरीनाम सर्वसौख्यप्रदायिनी ॥
शंखो नाम पुरा देवि विष्णुना निहतः प्रिये ॥५॥
तस्य देहं समादाय महान्तं शंखरूपिणम् ॥
तीर्थोदकेन संपूर्य प्रभासं क्षेत्रमागतः ॥६॥
तत्र शंखं तु प्रक्षाल्य कृतं तीर्थं महाप्रभम् ॥
तत्र पूरितवाञ्छङ्खं मेघगम्भीरनिस्वनम् ॥७॥
तस्य नादेन महता देवी तत्र समागता ॥
पृच्छती कारणं तत्र तत्कुण्डस्य समीपगा ॥
तेन कुण्डेश्वरी ख्याता कुण्डं शंखोदकं स्मृतम् ॥८॥
माघे मासि तृतीयायां यस्तां पूजयते नरः ॥
नारी वा भक्तिसंयुक्ता स गौरीपदमाप्नुयात् ॥९॥
दंपत्योर्भोजनं तत्र देयं यात्राफलेप्सुभिः ॥
कञ्चुकं फलदानं च गौरिणीनां च भोजनम् ॥१०॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां सहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये शंखोदककुण्डेश्वरीगौरीमाहात्म्यवर्णनंनाम षोडशोत्तरशततमोऽध्यायः ॥११६॥॥

N/A

References : N/A
Last Updated : January 10, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP