संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय ४२

प्रभासक्षेत्र माहात्म्यम् - अध्याय ४२

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
ततो गच्छेन्महादेवि चण्डीशं देवमुत्तमम् ॥
सोमेशादीशदिग्भागे धनुषां सप्तके स्थितम् ॥१॥
दण्डपाणेस्तु भवनाद्दक्षिणे नातिदूरगम् ॥
चंड्या प्रतिष्ठितं पूर्वं चण्डेनाराधितं ततः ॥२॥
गणेन मम देवेशि तत्कृत्वा दुष्करं तपः ॥
तेन चण्डेश्वरं लिंगं प्रख्यातं धरणीतले ॥३॥
स्नापयेत्पयसा पूर्वं दध्ना घृतयुतेन च ॥
मधुनेक्षुरसेनैव कुंकुमेन विलेपयेत् ॥४॥
कर्पूरोशीरमिश्रेण मृगनाभिरसेन च ॥
चन्दनेन सुगन्धेन पुष्पैः संपूजयेत्ततः ॥५॥
दग्ध्वा धूपं पुरो देवि ततो देवस्य चागुरुम् ॥
वस्त्रैः संपूजयेत्पश्चादात्मवित्तानुसारतः ॥६॥
नैवेद्यं परमान्नं च दत्त्वा दीपसम न्वितम् ॥
ततो दद्याद्द्विजातिभ्यो यथाशक्त्या तु दक्षिणाम् ॥७॥
दक्षिणां दिशमास्थाय यत्किंचित्तत्र दीयते॥
चण्डीशस्य वरारोहे तत्सर्वं चाक्षयं भवेत् ॥८॥
यः श्राद्धं कुरुते तत्र चण्डीशस्य तु दक्षिणे ॥
आकल्पं तृप्तिमायांति पितरस्तस्य भामिनि ॥९॥
अयने चोत्तरे प्राप्ते यः कुर्याद्घृत कम्बलम् ॥
न स भूयोऽत्र संसारे जन्म प्राप्नोति दारुणम् ॥१०॥
एवं कृत्वा नरो भक्त्या यात्रां देवस्य शूलिनः ॥
निर्माल्यातिक्रमोद्भूतैरज्ञानाद्भक्षणोद्भवैः ॥
पापैः प्रमुच्यते जंतुस्तथाऽन्यैः कर्मसंभवैः ॥११॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमेप्रभासक्षेत्रमाहात्म्ये चण्डीशमाहात्म्यवर्णनंनामद्विचत्वारिंशोऽध्यायः ॥४२॥

N/A

References : N/A
Last Updated : January 07, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP