संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय १५०

प्रभासक्षेत्र माहात्म्यम् - अध्याय १५०

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
ततो ब्रह्मेश्वरं गच्छेत्तस्य दक्षिणतः स्थितम् ॥
ब्रह्मणा स्थापितं पूर्वं ब्रह्मकुण्डसमीपतः ॥
त्रिषु लोकेषु विख्यातं रक्ष्यमाणं गणैर्मम ॥१॥
तत्र स्नात्वा चतुर्दश्याममावास्यां विशेषतः ॥
श्राद्धं च विधिवत्कृत्वा ब्रह्मेशं पूजयेत्ततः ॥२॥
विप्रेभ्यः कांचनं दद्यात्प्रीतये शंकरस्य च ॥३॥
एवं कृत्वा नरो देवि लभते जन्मनः फलम् ॥
विपुलां कीर्तिमायाति मोदते ब्रह्मणा प्रिये ॥४॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये ब्रह्मकुंडमाहात्म्ये ब्रह्मेश्वरमाहात्म्यवर्णनंनाम पंचाशदु त्तरशततमोऽध्यायः ॥१५०॥

N/A

References : N/A
Last Updated : January 10, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP